________________
४६८ ]
बृहवृत्ति-लघुन्याससंवलिते .
[पा० १. सू० ६८-६९.]
न्या० स०-ऊनार्थ । पूर्वादियोगे इत्यत्र पूर्वादीनां हि पूर्वादिभावे मासादिहेतुरिति अत्र हेतौ तृतीया। हेत्वादाविति आदिशब्दात्तुल्यार्थरित्यादि । एकेन द्रव्यवत्त्वमिति एकं च तत् द्रव्यं चेति कर्मधारये एकद्रव्यमस्यास्तीति कृते 'एकादे: कर्मधारयात्' [ ७. २. ५८. ] इतीकण् स्यादित्येवं समासः ॥ ३. १. ६७ ॥
कारकं कृता ॥ ३. १. ६८ ॥
कारकवाचि नाम तृतीयान्तं सामर्थ्यात्कर्तृकरणरूपं कृदन्तेन नाम्ना सह समस्यते, तत्पुरुषश्च समासो भवति। कर्तृ-पात्मना कृतम्-प्रात्मकृतम्, परकृतम्, 'कृत्सगतिकारकस्यापि' [७. ४. ११७.] चैत्रेण नखनिभिन्नः चैत्रनखनिभिन्नः, एवं सुजनसुलभः, दुर्जनदुर्लभः, अरिदुर्जयः, करणे,-परशुना छिन्नःपरशुच्छिन्नः, एवं नखनिर्भिन्नः-पादप्रहारः, पादाभ्यां ह्रियते-पादहारकः,10 तलाहृतिः, शस्त्रप्रहृतिः, बहुलाधिकारात् स्तुतिनिन्दार्थतायां प्रायेण कृत्यैः समासः । कर्तृ-काकपेया नदी, एवं नाम पूर्णेत्यर्थः, श्वलेह्यः, कूपः एवंनामासन्नोदक इत्यर्थः, कुक्कुटसंपात्या ग्रामाः, एवं नामासन्ना इत्यर्थः । करणकण्टकसंचेय प्रोदनः । एवं नाम विशद इत्यर्थः, वाष्पच्छेद्यानि तृणानि एवं नाम मृदूनीत्यर्थः, अन्यत्रापि बुशोपेन्ध्यम्, तृणोपेन्ध्यम्,-तेजसः अल्पता ख्याप्यते,15 घनघात्यः-कृच्छसाध्यत्वमुच्यते । कारकमिति किम् ? विद्ययोषितः, अन्ननोषितः, तेन हेतुनेत्यर्थः । पुत्रेण गतः, छात्रेणागतः, तेन सहेत्यर्थः । कृतेति किम् ? गोभिर्वपावान्, धान्येन धनवान् । बहुलाधिकारादेव क्तवतुना क्त्वया तव्यानीयाभ्यां च न भवति, दात्रेण लूनवान्, परशुना छिन्नवान्, दात्रेण कृत्वा, परशुना छित्त्वा, काकैः पातव्यः, श्वभिर्लेढव्यः ।। ६८ ।। 20
न्या० स०-कारकं० । आत्मना कृतमिति अर्थकथनमात्रमिदम् । आत्मना क्रियते स्मेति कार्य गतिकारकेति न्यायात् । काकपेया नदी इत्यादिषु निन्दा सुगमौवेति न दर्शिता। अल्पता ख्याप्यते इति नाऽत्र निन्दा स्तुतिर्वा किंतु स्वरूपकथनम् । घनघात्य इति घात्यस्य काठिन्यं प्रतिपाद्यते । तेन सहेत्यर्थ इति । एवं शिक्षया परिव्राजक इतीत्थंभूतलक्षणेऽप्युक्तमपि ज्ञेयम् । अनीयप्रयोगे श्वभिर्लहनीय25 इत्याद्यपि द्रष्टव्यम् ।। ३. १. ६८ ॥
नविंशत्यादिनकोऽच्चान्तः ॥ ३. १. ६६ ॥ एकशब्दस्तृतीयान्तो नविंशत्यादिनाम्ना सह समस्यते, तत्पुरुषश्च