________________
[पा० १. सू० ६६-६७.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ४६७
एव गिरिकाणः, मदपटुः, क्षारशुक्लः, कुसुमसुरभिः, कृतार्थो वृत्तावन्तर्भूत इति कृतशब्दो न प्रयुज्यते । तत्कृतैरिति किम् ? अक्षणा कारणः, पादेन खजः, शकुलया हेतुना खण्डः, काणत्वादि ह्यत्र काण्डादिना कृतम्, नाक्ष्यादिना, अक्ष्यादिना परं संबन्धमात्रम्, यदा तु तत्कृतत्वविवक्षायां कर्तरि करणे वा तृतीया तदा भवत्येव समासः । अक्षिकाण इत्यादि 5 गुणवचनैरित्येव ? गोभिर्वपावान्, दध्ना पटुः पाटवमित्यर्थः, न ह्य तौ पूर्व गुणमुक्त्वा सांप्रतं द्रव्ये वर्तेते इति गुणवचनौ न भवतः । अत एव शुद्धगुणवाचिनापि समासो न भवति-घृतेन पाटवम्, विद्यया धाष्टय म्-अत्रापि समासो भवतीति कश्चित् । अन्ये तु गुणवचनैर्गुणमात्रवृत्तिभिरपि समासमिच्छन्ति-शकुलाखण्डश्च त्रस्य, गिरिकाणश्च त्रस्येति ।। ६५ ।। 10
न्या० स०-तृतीया०। प्रत्ययः प्रकृत्यविनाभावीति तृतीयान्तं नामेह गृह्यते । अत एवेति गुणवचनत्वाभावादेवेत्यर्थः ।। ३. १. ६५ ॥
चतस्राद्धम् ॥ ३. १. ६६ ॥
अर्द्धशब्दस्तृतीयान्तस्तत्कृतार्थेन चतसृशब्देन सह समस्यते, तत्पुरुषश्च समासो भवति । अर्धेन कृताश्चतस्रोऽर्धचतस्रो मात्राः, एवमर्धचतस्रः खार्यः 115 चतस्रति किम् ? अर्धेन कृताश्चत्वारो द्रोणाः ।। ६६ ।।
ऊनार्थपूर्वाद्यैः ॥ ३. १. ६७ ॥
तृतीयान्तं नाम ऊनार्थैः पूर्वादिभिश्च नामभिः समस्यते, तत्पुरुषश्च समासो भवति । माषेणोनम्-माषोनम्, एवं कार्षापणोनम्, माषविकलम्, कार्षापणविकलम्, पूर्वाद्यः-मासेन पूर्वः-मासपूर्वः, संवत्सरपूर्वः, एवं मासावरः,20 संवत्सरावरः । पूर्व, अवर, सदृश, सम, कलह, निपुण, मिश्र, श्लक्ष्ण, इति पूर्वादयः । प्राकृतिगणोऽयम्-तेन धान्येनार्थो, धान्यार्थः, हिरण्यार्थः,
आत्मनापञ्चमः, आत्मनाषष्ठः, ‘एतावलुप्समासौ' माषेणाधिकं-माषाधिकम्, कार्षापणम्, एवं द्रोणाधिका खारी भ्रात्रा तुल्याः-भ्रातृतुल्याः, एकेन द्रव्यवत्त्वम्-एकद्रव्यवत्त्वम् इत्यादि सिद्धम् । पूर्वादियोगे यथायोगं हेत्वादौ25 तृतीया ।। ६७ ॥