________________
४६६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
पा० १. सू० ६४-६५.]
जीविकां-प्राप्तजीविका, आपन्ना जीविकाम्-पापन्नजीविका, एवं प्राप्तगवी, आपन्नगवी स्त्री, प्राप्तो जीविकां-प्राप्तजीविकः, आपन्नजीविकः, प्राप्तगवः, आपन्नगवः-पुरुषः, प्राप्तं जीविकां-प्राप्तजीविकम्, आपन्नजीविकं कुलम् । अद्वचनं स्त्रीलिङ्गार्थम्, प्राप्तापन्नयोः प्रथमोक्तत्वात् पूर्वनिपातार्थं वचनम् । श्रितादित्वाच्चानयोद्वितीयाया अपि प्रथमोक्तत्वेन प्राग्निपात:-तेन 5 जीविकाप्राप्तः, जीविकापन्न इत्यपि भवति ।। ६३ ।।
इषगुणवचनैः ॥ ३. १. ६४ ॥
ईषदित्येतदव्ययं गुणवचनैर्नामभिः सह समस्यते, तत्पुरुषश्च समासो भवति, ये गुणे वर्तित्वा तद्योगे गुणिनि वर्तन्ते ते गुणमुक्तवन्तो गुणवचनाः । ईषदल्पं पिङ्गलः ईषपिङ्गलः-एवमोषत्कडारः, ईषद्विकटः, ईषदुन्नतः,10 ईषद्रक्तः । गुणवचनैरिति किम् ? ईषत्कारकः, ईषद्गार्यः, गुणः क्रियया वा हीनो गार्य एवमुच्यते । समासे तद्धितकाम्य समासान्तराणि च वसाद्यादेशाभावादयश्च प्रयोजनम्-ईषत्पिङ्गलस्येदमैषत्पिङ्गलम्, ऐषत्पिङ्गलकाम्यत्, कोपेनेषद्रक्तः,-कोपेषद्रक्तः, ईषत्पिङ्गल युष्माकमथो पुत्र इति ।। ६४ ॥
15
न्या० स०-ईषद् गुरग० । गुणं वचन्तीति रम्याद्यनटि गुणवचनाः । ईषपिङ्गल इति पिङ्गत्वमस्यास्ति सिध्मादित्वाल्लः । न च वाच्यमीषत्पैङ्गल्ययोगात् पुरुषोऽपीषत्. स चासो पिङ्गलश्चेति कर्मधारयेण सिद्ध्यति, यतस्तत्र पूर्वनिपातकामचारः, ईषत्शब्दात् क्रियाविशेषणत्वादम्, उन्नतरक्तशब्दावौणादिको पुतपितेति साधू ततो गुणवचनौ, क्त तु क्रियावचनौ स्याताम् । समासान्तराणीति 20 अन्यथा 'नाम नाम्ना' [ ३. १. १८. ] इत्यनुवर्तमाने कोपेन ईषद्रक्त इति त्रिपदो न स्यात्, कोपेषद्रक्त इत्यत्र 'ऊनार्थ' [ ३. १. ६७. ] इति समासः, ईषद्ररक्त इति न गुणवचनः, तेनोत्तरेण न समासः ।। ३. १. ६४ ।।
तृतीया तत्कृतैः ॥ ३. १. ६५ ॥
तृतीयान्तं नाम तत्कृतैस्तृतीयान्तार्थकृतैर्गुणवचनैर्नामभिः सह समस्यते,25 तत्पुरुषश्च समासो भवति । शङ्कुलया कृतः खण्डः-शकुलाखण्डश्चैत्रः,