________________
४७८ ]
. बृहद्वृत्ति-लघुन्याससंवलिते...
पा० १. सू० ८८.]
शौक्ल्यादिशब्दैर्द्धर्ममात्रमेवाभिधीयते। सुरभिरिति सुष्, रभते 'पदिपठि' ६०७ । (उणादि) इति इ प्रत्ययः, आगमस्यानित्यत्वात् 'रभोऽपरोक्षा' [ ४. ४. १०२. ] इति न। अर्थात् प्रकरणाद् वेति ननु शुक्लादिवर्णादेविशेषणम्, पटस्य शुक्लो वर्ण इति ततश्च पटादेर्वण्र्णादिना संबन्धो न तु शुक्लादिविशेषणेनेति पष्ठ्यन्तस्य समासप्राप्तिरेव नास्तीत्याशङ्का। अस्वास्थ्यमस्त्येवेति गुणग्रहणेन ये गुणा द्रव्यस्य विशेषणं भवन्ति, 5 शुक्ल: पट इत्यादौ ये च भूतपूर्वगत्या ट्यणाद्यन्ताः शौक्ल्यादयस्तेऽपि गृह्यन्ते, यतः शुक्लशौक्ल्यमिति, एवं मधुरमाधुर्यादीनामपि । ननु अनेनैव व्याख्यानेन पटस्य शुक्ल इत्यादिष्वेव निषेधः प्राप्त: यतो यथा शुक्ल: पट इत्यादौ द्रव्येऽपि वृत्तिस्तथा न शौक्ल्यशब्दस्य द्रव्ये वृत्तिर्यत: शौक्ल्यशब्देन गुणमात्रमेवाभिधीयते न द्रव्यम् ? उच्यते, यद्यपि शौक्ल्यशब्दो द्रव्ये न वर्तते तथापि शौक्ल्यशब्दो गुणवचनः, ततो यद्यप्ययं द्रव्यं वक्तु 10 न शक्नोति तथापि आत्मीयशुक्ललक्षणेन शब्देन यदि वादयति तहि भवत्येव, आत्मीयत्वं चानयोर्गुणमात्रवृत्तित्वात्, यथा कश्चित् पुमान् भार्यायाः पार्थात् पित्रोभक्ति कारयति ततो यद्यात्मना न करोति तथापि भक्ति कुर्वन्नभिधीयते एवमत्राऽपि भविष्यति । तद्विशेषरेवायमिति तद्विशेषाश्च शुक्लादयो मधुरादयः सुरभ्यसुरभी शीतादयश्च गुणा गृह्यन्ते, तेषामेव द्रव्य विशेषणत्वसंभवात्, तेन रूपादीनां न ग्रहः, न हि ते द्रव्यस्य विशेषणं भवन्ति 15 पटो रूपं, गुडो रसः, चन्दनं गन्धः स्तनस्पर्शः इति । रूपादिविशेषा ये शुक्लादयस्त एव गृह्यन्ते, तेन गौरवादयः संख्यादयो वैशेषिकप्रसिद्धाश्च न गृह्यन्ते । वाङ्माधुर्यमिति रसनेन्द्रियग्राह्य एव रसो लोके मधुरशब्दस्य रूढोऽत्र तूपचारादिति न गुडस्य माधुर्यमितिवनिषेधः, यतो गौणमुख्यन्यायेन मुख्यो लौकिको गुणः समासाभावं प्रयोजयतीति । बहलाधिकारादिति ननु कण्टकस्य तेक्षण्यमित्यादौ तक्षा
, ततो20 द्वीन्द्रियग्राह्याणां न गुणत्वं किं त्वेकेन्द्रियग्राह्याणामेवेति वैशेषिकमतम्, ततः समासः प्राप्तः, कुसुमसौरभ्यमित्यादौ च पटस्य शौक्ल्यमितिवत् समासाभावप्रसङ्गस्तदेतदुभयं कथमित्याशङ्का ।। ३. १८७ ।।
सप्तमी शौण्डायैः ॥ ३. १. ८८ ॥
सप्तम्यन्तं नाम शौण्डाद्यैर्नामभिः सह समस्यते, तत्पुरुषश्च समासो25 भवति । पाने प्रसक्तः शौण्ड:-पानशौण्डः, पानशौण्डो मद्यपः, अक्षेषु प्रसक्तःशौण्ड इव अक्षशौण्डः, शौण्डशब्द इह गौणो व्यसनिनि वर्तते, वृत्तौ प्रसक्तिक्रियाया अन्तर्भावादप्रयोगः, अक्षधूर्तः। अक्षकितवः । शौण्ड धूर्त, कितव, व्याल, सव्य, प्रायस, व्यान, सवीण, अन्तर, अधीन, पटु, पण्डित कुशल, चपल, निपुण, सिद्ध, शुष्क, पक्व बन्ध, बहुवचनमाकृतिगणार्थम् 130 तेन शिरः शेखरः, हस्तकटकः, आपातरमणीयः, अवसानविरसः, पृथिवीविदितः,