________________
४६० ]
बृह वृत्ति-लघुन्याससंवलिते
[पा० १. सू ५३.]
न्या० स०-पूर्वापराध। पूर्वः कायस्येति पूर्वो भागः कस्मात् ? नाभ्यादेः, । कस्य ? कायस्येति संबन्धाद्दिक्पञ्चमी कायशब्दान्न भवति । पूर्व छात्राणामिति बहुवचनात् भेदप्रतोतिः, छात्राणां संबन्धिनं कस्मादपि छात्रात् पूर्वमित्यर्थः । प्रसज्यप्रतिषेधः किमिति; यद्यत्राभिन्न न भवतीति पर्युदासः स्यात्तदा समाहारस्यैकत्वादत्रापि समासः स्यात्, भिन्नेन न भवतीति प्रसज्यप्रतिषधे तु विज्ञायमाने समाहारद्वद्वस्य 5 भेदपूर्वकत्वात् भेदनिमित्तः प्रति धोऽपीति समासाभावः। अंशिनेति किमिति ननु नाभेर्यः पूर्वो भागो व्यवस्थितः, स कायस्य शोभनो रिक्तो वेत्याद्यर्थोऽत्र विवक्षितस्तत्र पूर्वस्य कायापेक्षत्वेनासमर्थत्वादेव नाम्या सह समासो न प्राप्त: किमंशिवर्जनेन ? सत्यं, यद्यपि कायापेक्षत्वं पूर्वस्य तथापि प्रधानसापेक्षत्वेऽपि वृत्तिर्भवतीति असत्यंशिनेत्यस्मिन्नवधिभूतया नाभ्या समासः संभाव्येत, अमुना कायेनांऽशिना सह समासो यथाभिधानमस्ति10 ततः प्रवर्तते पूर्वकायो नाभेरिति ।। ३. १. ५२ ।।
सायाहुनादयः ॥ ३. १. ५३ ॥
सायाह्नादयः शब्दा अंशिना तत्पुरुषेण साधवो भवन्ति । सायमह्नः सायाह्नः, मध्यमह्नः मध्याह्नः, मध्यं दिनस्य मध्यंदिनम्, मध्यं रात्रेः मध्यरात्रः, उपारताः पश्चिमरात्रगोचरात् इत्यादयः । बहुवचनमाकृतिगणार्थम्-पूर्वे15 पञ्चालाः, उत्तरे पञ्चालाः इतिवत्समुदायवाचिनामंशेऽपि प्रवृत्तिदर्शनात् सामानाधिकरण्ये सति कर्मधारयेणैव सिद्धम् । पूर्वश्चासौ कायश्च पूर्वकायः, सायं च तदहश्च सायाह्न इति । तत्पुरुषविधानं त्विह पूर्वत्र चाह्नः सायं कायस्य पूर्वमिति षष्ठीसमासबाधनार्थम् ।। ५३ ।।।
न्या० स०--सायाह्लादयः। स्यतेपनि नौणादिको वा सायशब्दः, मान्तमव्ययं20 वा। सायमन इति ननु 'सायम्' शब्देनाऽहरन्त उच्यते इत्युक्तार्थत्वात् सायमन इति विग्रहेऽहनशब्दस्य प्रयोगो न प्राप्नोति ? सत्यं, दिनान्ते यानि कार्याणि क्रियन्ते तान्यप्युपचारात् 'सायम्' शब्देनोच्यन्ते, ततः संदेहः किं कार्याण्यभिधीयन्ते उत दिनान्त इत्यहन्शब्दः प्रयुज्यते, सूत्रसामर्थ्यात् वा तस्माच्च दिनान्त एव लभ्यते ।
उपारताः पश्चिमरात्रगोचरा-दपारयन्तः पतितुजवेन गाम् । तमुत्सुकाश्चक्रुरवेक्षणोन्मुखं, गवां गणा: प्रस्नुतपीवरोधसः ।। १॥ किराते
षष्ठोसमासबाधनार्थमिति ननु सायमोऽव्ययत्वात् 'तृप्त' [३. १. ८५.] इत्यादिना षष्ठोसमासस्य नियेन प्राप्तिरेव नास्ति किमुच्यते षष्ठीसमासबाधनार्थमिति ? उच्यते, यदाऽकारान्तः सायशब्दोऽनव्ययं नपुंसकलिङ्गस्तदा प्राप्नोति ।। ३. १. ५३ ॥
25