________________
[पा० १. सू० ५२.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ४५६
यः कुतश्चिद् व्या मोहादाशङ्कितः स निवर्त्यमानस्तिरस्क्रियमाणो यत्रोत्तर पदार्थे स निवर्त्यमानतदभावः, निवर्त्यमानो यस्तस्य उत्तरपदस्य भाव उत्तरपदप्रवत्ति-निमित्तगोत्वब्राह्म गत्वादि त वानिहार्थ उत्तरपदस्यैवार्थः । नञ् समासस्यापि निवृत्तिविशिष्टोत्तरपदार्थ-प्राधान्यमित्यर्थः । स चायमिति उत्तरपदार्थ इत्यर्थः । अवचनं इत्यादिषु कश्चिद् वचनमवचनं च एकमेव जानाति पश्चाद्वचनं न भवति, कोऽर्थः ? यद् वचनं वर्तते । तद्वचनं न भवति । एतेन किमुक्त भवति ? अवचनस्य वचनाभावः प्रतीयते इत्यर्थः, एवं अवोक्षणम् इत्यत्रापि ज्ञेयम् । प्रतीयते इति सर्वत्र शब्दशक्तिस्वाभाव्यादिति योज्यम् ।
प्रश्राद्धभोजी-इत्यादिषु 'व्रताभीक्ष्ण्ये' [५. १. १५७.] इति णिन्, कणौं वेष्ट्येते आभ्यामिति नाम्नि पुसि च णकः । अकार्णवेष्टकिकम् इत्यादिषु नत्रः शुभिक्रिययैव संबन्धान्नाकारस्य वृद्धिः, एवं सर्वोदाहरणेषु ज्ञातव्यम् । नन्विदं सूत्रं विनाप्यब्राह्मण10 इत्यादयो विशेषणमित्यनेन कर्मधारयेऽपि सेत्स्यन्ति, यतो नञ् विशेषणम् ब्राह्मणो विशेष्यमिति ? उच्यते, पूर्वापरभावनियमार्थं वचनं, यत्र द्वौ गुणशब्दौ भवतः, तत्रानियमेन पूर्वनिपातः, यथा अखञ्जः, नञ् नि धमात्रे वर्त्तते, खजशब्दोऽपि गुणमात्रे इत्यनियमेन प्राप्नोतीति वचनम् । प्रसङ्ग कृत्वा प्रति वधः प्रसज्यप्रतिषेधः 'अव्ययं प्रवृद्धादिभिः' [३. १. ४८.] सः ।
15
हता गुणरस्य भयेन वा मुने-स्तिरोहिताश्चित् प्रहरन्ति देवताः । कथं त्वमी संततमस्य सायका, भवन्त्यनेके जलधेरिवोर्मयः ॥१॥ किराते
अनेके इति अत्र न एक इति कृत्वा विशेष्यलिङ्गसंख्यां चाश्रित्य अनेक इत्यपि समर्थ्यते उत्पलेन । कश्चिदेकशब्दस्यान्यार्थस्य एकशेषादेक इति साधयित्वा पश्चान्नसमासं मन्यते ।। ३. १. ५१ ॥
20
पूर्वापराधरोत्तरमभिन्नाशिना ॥ ३. १. ५२ ॥
अंश एकदेशस्तद्वानंशी, पूर्वादयः शब्दाः सामर्थ्यादंशवाचिनोंऽशिना समस्यन्ते, अभिन्न न 'न चेत्सोंऽशी भिन्नः प्रतीयते' तत्पुरुषश्च समासो भवति । पूर्वः कायस्य पूर्वकायः, एवम् अपरकायः, अधरकायः, उत्तरकायः, पूर्वादिग्रहणं किम् ? दक्षिणं कायस्य । अभिन्न नेति किम् ? पूर्व छात्राणामामन्त्रयस्व । 25 प्रसज्यप्रतिषेधः किम् ? पूर्व पाणिपादस्य-अत्र हि समाहारस्यैकत्वेऽपि पाणिः पाद इति भेदप्रतीतेन भवति । पूर्वग्राम इत्यादौ तु न ग्रामशब्दात्प्रासादादिभेदप्रतीतिः । अंशिनेति किम् ? पूर्वो नाभेः कायस्य ॥ ५२ ।।