________________
४५८ ]
बृहद्वृत्ति-लधुन्याससंवलिते
[पा० १. सू० ५१.]
पार्वाभ्यां वोपपीडं, पार्बोपपीडं शेते । वाशब्दो नित्यसमासनिवृत्त्यर्थः तेनोत्तरेषु वाक्यमपि भवति ।। ५० ।।
न्या० स०-तृतीयोक्तं । वाशब्द इति-इह पृथग्योगादेव नित्यत्वस्य निवृत्तिर्वाशब्दस्तु नित्यसमासाधिकार निवृत्त्यर्थ इति ।। ३. १. ५० ।।
नञ् ॥ ३. १. ५१ ॥
नजित्येतन्नाम नाम्ना समस्यते, स च समासोऽन्यस्तत्पुरुषसंज्ञो भवति । न गौः अगौः, अनुच्चैः, असः निवर्त्यमानतद्भावश्चोत्तरपदार्थः पर्यु दासे नसमासार्थ:-स चायं चतुर्धा-तत्सदृशः, तद्विरुद्धः, तदन्यः, तदभाव इति । अब्राह्मणः, अशुक्ल इति तत्सदृशः-क्षत्रियादिः पीतादिश्च प्रतीयते, अधर्मः, असित इति तद्विरोधी-पाप्मा कृष्णश्च प्रतीयते, अनग्नि: अवायुरित्यग्नि-10 वायुभ्यामन्यः प्रतीयते, अवचनम् अवीक्षणमिति वचनवीक्षणाभावः प्रतीयते । नन्वस्योत्तरपदार्थप्राधान्येन तल्लिङ्गसंख्यत्वे सति कथं भवन्त्यनेके जलधेरिवोर्मयः' इत्यादौ अनेके इति बहुवचनम्-असाधव एवेदशाः शब्दाः । प्रसह्यप्रतिषेधे तु नञ् पदान्तरेण संबध्यत इति उत्तरपदं वाक्यवत् स्वार्थ एव वर्तते-तत्रासामर्थ्येऽपि यथाभिधानं बहुलकात् समासः-सूर्यमपि न पश्यन्ति15 असूर्यपश्या राजदाराः, पुनर्न गीयन्ते अपुनर्गेयाः श्लोकाः, श्राद्धं न भुक्त अश्राद्धभोजी, अलवण-भोजी भिक्षुः, तथा कर्णवेष्टकाभ्यां न शोभते अकार्णवेष्टकिकं मुखम्,-'शोभमाने' [६. ४. १०२.] इतीकण , वत्सेभ्यो न हितोऽवत्सीयो गोधुक्,--'तस्मै हितः' [७. १. ३५.] इतीयः, वधं नार्हत्यवध्यो ब्राह्मणः, 'दण्डादेर्यः' [६. ४. १७८.] इति यः, संतापाय न शक्त असांतापिकः 20 सदुपदेशः,-'तस्मै योगादेः शक्त' [६. ४. ६४.] इतीकण । अन्य इत्येव ? न विद्यन्ते मक्षिका यत्र सोऽमक्षिकाकः, मक्षिकाणामभावोऽमक्षिकमिति ।। ५१ ।।
न्या० स०-नञ् । ननु न इत्येव निरनुबन्धः पठ्यतां किं सानुबन्धेन नत्रित्युपादानेन ? सत्यं, चादिषु कारोपदेशं स्मारयितु अकारो निद्दिश्यते प्रतिबध-शङ्का-25 व्युदासार्थं च, नेत्युक्त हि समासस्य प्रतिषेधः सम्भाव्यते । अगौरिति नत्रा विशेषित आरोपितगवादिस्वरूपो गवयादिरित्यर्थः । निवर्त्यमानतद्भाव इति । घटादे: पटादिभावो