________________
[पा० १. सू० ५४-५५.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ४६१
समेंशेध नवा ॥ ३. १. ५४ ॥
अर्धमित्येतत्समेंऽशे वर्तमानमंशिना अभिन्न न वा समस्यते, तत्पुरुषश्च समासो भवति । अर्धं पिप्पल्याः अर्धपिप्पली, पक्षे-पिप्पल्यर्धम् । एवमर्धकोशातकी, कोशातक्यर्धम्, अर्धपणः, पणार्धम्, अर्धवेदिः, वेद्यर्धम्, अर्धचापम् चापार्धम्, अर्धस्वरः, स्वरार्धम्, अर्धग्रामः, ग्रामार्धम्, अर्धापूपः, 5 अपपार्धम्, समेंऽश इति किम् ? ग्रामाधः, नगराधः, । अर्धं च सा पिप्पली चेति कर्मधारयेणैव सिद्धे भेदविवक्षायां पक्षे षष्ठीसमासबाधनार्थमसमांशे चार्द्धश्चासौ ग्रामश्चेति कर्मधारयनिषेधार्थं वचनम् । अंशिनेत्येव ? पिप्पल्या अर्ध चैत्रस्य, अत्र चैत्रेण समासो न भवति । अभिन्न नेत्येव ? अर्धं पिप्पलीनाम् । कथमपिप्पल्यः, अर्धं पिप्पल्या इत्यभिन्न न समासे10 सत्येकशेषात्, अर्धराशिरित्यत्र राशेरभेदप्रतिभासाद्भविष्यति, अत्र समेंऽशे वर्तमानोऽर्धशब्द आविष्टलिङ्गी नपुंसकः, असमांऽशे तु पुंलिङ्गः। अन्ये त्वसमासे वाच्यलिङ्गमेनमाहुः । असमांश एव च षष्ठीसमासं, समांशे तु नित्यमंशितत्पुरुषमिच्छन्ति ।। ५४ ।।
न्या० स०-समेंऽशे । अद्ध पिप्पल्या इत्यत्रार्द्धशब्दस्य तुल्यभागेऽर्द्धमिति क्लीबत्वं,15 अर्द्धपिप्पलीति समुदायस्य तु परलिङ्गो द्वंद्वोऽशीति वचनात् स्त्रीत्वम्, एवमुत्तरत्र । अतुल्यभागे तु ग्रामार्द्ध इत्यादावर्द्धसुदर्शनेति पुस्त्वम् । षष्ठीसमासबाधनार्थमिति अयमर्थः सूत्राभावे भेदाभेदविवक्षायां प्रयोगद्वयं सिद्ध्यति । सूत्रकृतौ तु भेदविवक्षायामेव पक्षे षष्ठीसमासं बाधित्वा प्रयोगद्वयं सिद्धम्, अन्यथा भेदे षष्ठीसमास एव स्यात् । अर्द्ध पिप्पलोनामिति पिप्पल्याख्यस्यांशिनोऽनेकद्रव्यस्वभावत्वादभिन्नत्वाभावात् समासा-20 भावः, षष्ठीसमासस्तु भवत्येव पिप्पल्यर्द्धमिति । प्रकरणादिना बहुत्वस्याप्यन्तर्गतबहुवचनान्तस्यापि प्रवृत्तिरविरुद्धा । ३. १. ५४ ।।
जरत्यादिभिः ॥ ३. १. ५५ ॥
असमांशार्थ प्रारम्भः, अर्धशब्दो जरत्यादिभिरंशिभिरभिन्न : सह वा समस्यते, तत्पुरुषश्च समासो भवति । अ? जरत्या अर्धजरती तत्तुल्यम् 25 अर्धजरतीयम्, अर्धवैशसम्, अर्धोक्तम्, अर्धविलोकितम्,-पक्षे जरत्यर्ध