________________
[पा० १. सू० २७.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ४४१
निर्देशात् युद्धोपाधिकायामन्यस्यामपि क्रियायां भवति-बाहूवाहवि व्यासजेतामिति । अव्ययीभावप्रदेशाः 'अमव्ययीभावस्यातोऽपञ्चम्याः' [३. २. २.] इत्यादयः ।। २६ ॥
न्या० स०-तत्रादाय० । काकाक्षिगोलकन्यायेन मिथः प्रत्येकमभिसंबन्ध्यते, अत एव सूत्रे मध्ये पठितः । प्रहृत्येति इति शब्दो वाक्यस्वरूपपरामर्शार्थः, स च प्रत्येकं 5 संबध्यते, तत्रादाय मिथ इति मिथस्तेन प्रहृत्येति । अव्ययीभावसंज्ञ इति ननु 'संज्ञा संज्ञान्तरबाधिका न' इति न्याया। बहुव्रीहिसंज्ञाप्यस्तु ? नैवं, द्विगुश्चेति चकारकरणाद् द्वितीया संज्ञा न। ननु युद्धक्रियायामेवायं समासः स चान्यपदार्थ इति 'एकार्थं च [३. १. २२.] इति बहुव्रीहिणव सिद्धयतीति किं संज्ञान्तरेण इजन्तश्च, परमदण्डादण्डोति पदान्तरेण समासव्युदासार्थं तिष्ठद्ग्वादिषु पठनीयः, तस्य च अव्ययत्वं किमनेन, न च10 अन्यपदार्थस्य प्रथमान्तत्वात् कथं तेन समास इति वाच्यं, केशानां च केशानां चान्योऽन्यस्य ग्रहणं यस्मिन् युद्धे इति विग्रहात्, द्वितीयादिग्रहणं वा बहुव्रीहिविधानसूत्रे न विधास्यामः ?
उच्यते, एकशेषबाधनार्थं, तथाहि केशेषु च केशेषु च गृहीत्वा युद्ध, दण्डैश्च दण्डैश्च प्रहृत्य युद्धं, ग्रहणप्रहरणे च सहविवक्षितत्वात् रूपत्वादेकशेषप्राप्तौ वचनसामर्थ्यात् समूहान्यथाऽनुपपत्त्या समूहविषययाऽनयाऽव्ययीभावसंज्ञयाऽनवकाशया बाध्यते, पूर्वेण तु15 बहुव्रोहावेकशेषो न शक्येत बाधितुमन्यत्र सावकाशत्वात्तस्य । वृक्षा इति द्वंद्ववत् । केशाकेशीति नन्वन्यचिकीषितायाः क्रियाया अन्येन करणं क्रियाव्यतिहारः, ततश्च यदेकेन केशग्रहणमकारि तत अपरोन विधत्ते परचिकीर्षितमिति. क्रियाव्यतिद्वारो नास्तीति कथं समासः ? उच्यते, एवमत्रापि केशेषु च स्थित्वेत्यत्र केशेषु च स्थित्वेतीजेषु इत्यर्थः । केशेषु च केशेषु च गृहीत्वा युद्धमनेनेति, एकश्च सकेश: अन्यश्च मुण्डोऽतो न मिथोभावः ।20 हस्ते च पादे च गृहीत्वेति यदा तु हस्तश्च पादश्चेति कृत्वा 'प्रारिणतूर्याङ्गाणाम्' [ ३. १. १३७. ] इत्येकत्वे हस्तपादे च हस्तपादे च मिथो गृहीत्वा कृतं युद्धमिति क्रियते, तदा हस्तपादाहस्तपादीति भवति । व्यासजेतामिति बाह्वोश्च बाह्वोश्च मिथो गृहीत्वा व्यासङ्गः कृतः, क्रियाव्यतिहारे आत्मनेपदं ह्यस्तनी आताम् व्यासङ्गकृतवन्तावित्यर्थः
रोषावेशादाभिमुख्येन कौचित्पाणिग्राहं रंहसो वोपयान्तौ । हित्वा हतीमल्लवन्मुष्टिघातैनन्तौ बाहाबाहवि व्यासजेताम् ।। १ ।।माघे।। ३. १. २६ ।।
25
नदीभिर्ना मिन ॥ ३. १. २७ ॥
नदीवाचिभिर्नामभिर्नाम समस्यते, नाम्नि संज्ञायामन्यपदार्थे, स च समासोऽव्ययीभावसंज्ञो भवति । उन्मत्ता गङ्गा यत्र स उन्मत्तगङ्गं देशः,