________________
४४२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
पा० १. सू० २८-२६.]
एवं लोहितगङ्गम्, तूष्णीगङ्गम्, शनैर्गङ्गम्, इमानि देशनामानि ।' नदीभिरिति बहुवचननिर्देशात् तद्विशेषाणां स्वरूपस्य च ग्रहणम् । नाम्नीति किम् ? शीघ्रगङ्गो देशः, अन्य पदार्थ इत्येव ? कृष्णा चासौ वेण्णा च कृष्णवेण्णा, एवं शुष्कतापी ।। २७ ।।
न्या० स०–नदीभिर्नाम्नि । शनैर्गङ्गमिति शनर्योगात् गङ्गाऽपि शनैः सा विद्यते । यत्र । स्वरूपस्य च ग्रहणमिति उत्तरसूत्रे पञ्चनदमित्यत्र स्वरूपग्रहणाच्च पर्यायाणां स्रोतस्विनोनिम्नगासिन्धुप्रभृतीनां न ग्रहः ।। ३. १. २७ ॥
संख्या समाहारे ॥३. १. २८ ॥
अन्यपदार्थ इति निवृत्तम् । संख्यावाचि नाम नदीवाचिभिर्नामभिः सह समस्यते, समाहारे गम्यमाने, स च समासोऽव्ययीभावसंज्ञो भवति ।10 द्वयोर्यमुनयोः समाहारो द्वियमुनम्, एवं त्रियमुनम्, पञ्चनदम्, सप्तगोदावरम्, अत्राव्ययीभावत्वे समासान्तोऽम्भावश्च सिद्धो भवति । समाहार इति किम् ? एका नदी एकनदी। द्वीरावतीको देशः, द्विगुबाधनार्थं वचनम् । अन्ये तु पूर्वपदप्राधान्येऽव्ययीभावः-गोदावरीणां सप्तत्वं सप्तगोदावरम्, समाहारे तु द्विगुरेवेत्याहुः, सप्तानां गोदावरीणां समाहारः सप्तगोदावरि, दिगोदावरि15 इत्यादि ।। २८ ।।
न्या० स०-संख्या समा० । निवृत्तमिति समाहारे इति भणनात्, उभयपदप्रधानः समासोऽनेन विधीयते, समाहार इति किमिति समाहृति विना द्वीरावतीको देश इत्यादौ द्विगोरिव बहुव्रोहेरपि बाधकः स्यात् । द्विगुबाधनार्थमिति ननु तर्हि तस्य क्वावकाश: ? सत्यं, नदीनाम्नोऽन्यत्र । गोदावरीणां सप्तत्वमिति आ दशभ्यः संख्या संख्येये वर्त्तते 20 इत्यस्य प्रायिकत्वाद् वृत्तिविषये द्वयादयः संख्यानेऽपि वर्तन्ते । सप्तगोदावरीति, अन्यस्तु सर्वो नपुसकत्वे 'क्लीबे' [२. ४. ६७.] इति ह्रस्वः, एवं द्विगोदावरि ।। ३. १. २८ ।।
वंश्येन पूर्वार्थ ॥ ३. १. २६ ॥
विद्यया जन्मना वा प्राणिनामेकलक्षणसंतानो वंशः, तत्र भवो वंश्यः, स इहाद्यः कारणपुरुषो गृह्यते, तद्वाचिना नाम्ना संख्यावाचि नाम समस्यते,25 पूर्वस्य पदस्यार्थेऽभिधेयेऽव्ययीभावश्च समासो भवति । एको मुनिर्वंश्यो