________________
४४० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० २६.]
पदार्थेऽभिधेये समस्यते स च समासो बहुव्रीहिसंज्ञो भवति । दक्षिणस्याश्च । पूर्वस्याश्च दिशोर्यदन्तरालं सा दक्षिणपूर्वा दिक्, एवं पूर्वोत्तरा, उत्तरपश्चिमा, दक्षिणपश्चिमा, 'सर्वादयोऽस्यादौ' [३. २. ६१.] इति पूर्वपदस्य पुंवद्भावः । कथं पश्चिमदक्षिणा, पश्चिमोत्तरा। कर्मधारयोऽयम् । बहुव्रीहौ हि सर्वनाम्नः पूर्वनिपातः स्यात् । रूढिग्रहणं यौगिकनिवृत्त्यर्थम् । तेनेन्द्रयाश्च 5 कौबेर्याश्च दिशोर्यदन्तरालमिति वाक्यमेव ।। २५ ।।
न्या० स०-दिशो रूढया०-दिशि वर्तमाना नित्यस्त्रीलिङ्गा एवेति 'परतः स्त्री पुवत्' [३. २, ४६.] न प्राप्नोतीति सर्वादयोऽस्यादावित्युक्तम् । ये पुनर्दिशि दृष्टाः शब्दास्तेषां स्त्रीत्दे परतः स्त्रीति भवति वाच्यलिङ्गत्वात् । समासस्त्वनेन भवति रूढिग्रहणात् । अन्तरालस्यान्यपदार्थत्वेऽपि प्रथमान्तत्वात् 'एकार्थं च' [ ३. १. २२. ] 10 इत्यनेन न प्राप्नोतीति वचनं कजभावार्थं च, कथमिति चेत् ? उच्यते, 'शेषा वा' [७.३. १७५.] इत्यत्र हि शेष सामान्यविहिते बहतीहौ न त्वन्यस्मिन्निति व्याख्यानात अथ अन्य पदार्थत्वादिदमपि न कर्त्तव्यं स्यात्, द्वितीयाद्यन्यार्थ इति द्वितीयादिग्रहणमकृत्वाऽन्यपदार्थ इति कृते साध्यसिद्धेः, अनिष्टविषयपरिहारस्तु बहुलग्रहणाद् भविष्यति, तस्मादिदं सूत्र कजभावार्थमेव, एवं 'सुज्वार्थे' [ ३. १. १६. ] इत्यादिसूत्रत्रयमपि ।। ३. १. २५ ।।15 तत्रादाय मिथस्तेन प्रहृत्य सरूपेण युद्धेऽव्ययीभावः
॥३. १. २६ ॥ तत्रेति, सप्तम्यन्तं नाम, मिथ आदायेति क्रियाव्यतिहारे, तेनेति तृतीयान्तं, मिथः प्रहत्येति क्रियाव्यतिहारे, सरूपेण समानरूपेण नाम्ना युद्धविषयेऽन्यपदार्थे समस्यते, स च समासोऽव्ययीभावसंज्ञो भवति । केशेषु च20 केशेषु च मिथो गृहीत्वा कृतं युद्धं केशाकेशि, एवं कचाकचि, बाहूबाहवि, दण्डैर्दण्डैश्च मिथः प्रहृत्य कृतं युद्धं दण्डादण्डि, एवं यष्टायष्टि, मुष्टामुष्टि, अस्यसि । तत्रेति तेनेति च किम् ? केशांश्च केशांश्च गृहीत्वा कृतं युद्धम्, मुखं च मुखं च प्रहृत्य कृतं युद्धम् । प्रादायेति प्रहत्येति किम् ? केशेषु च केशेषु च स्थित्वा कृतं युद्धं गृहकोकिलाभ्याम्, दण्डैश्च दण्डैश्चागत्य कृतं25 युद्धमेताभ्याम् मिथ इति क्रियाव्यतिहारः किम् ? केशेषु च केशेषु च गृहीत्वा युद्धमनेन। सरूपेणेति किम् ? हस्ते च पादे च गृहीत्वा कृतं युद्धम् । युद्ध इति किम् ? हस्ते च हस्ते च गृहीत्वा कृतं सख्यम्, युद्ध इति विषय