________________
[पा० १. सू० २४-२५.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ४३६
वाचिनावस्थानादिना रूपेणेत्यर्थः, आदिपदाद् गुरुस्थानमिव स्थानमस्येत्यादि । वहेगडुरिति गडशब्दस्योकारान्तत्वात् पुस्त्वम्, न्यासकारस्तु क्लीबत्वमपि, तथा एषु गम्यमानार्थत्वाद् द्वितीयमुखादि शब्दाप्रयोगः, मन्दमतिव्युत्पादनायेदमुच्यते, न हि वाक्योपमर्दैन समासो विधीयते नित्यत्वाच्छब्दानां पुरुषप्रयत्ननिर्वा हि शब्दाः, न हि येन प्रयत्नेनोष्ट्रमुखशब्दो निर्वय॑ते तेनैवोष्ट्रमुखमिवेत्यादिकोऽपि भिन्नाधिकरणप्रयत्नत्वाद् 5 भिन्नावैताविति, अत एवोच्यतेऽनादिशब्दप्रवाह इति। अनुवादकं च स्मृतिशास्त्रं न विधायकमतिप्रसङ्गाच्च, अन्यथा दध्ना उपसिक्त प्रोदनो दध्योदनः, गुडेन मिश्रा धाना गुडधाना इत्यादौ समासेऽ श्यमानानामुपसिक्त इत्यादीनां लोपार्थं यत्नः कर्त्तव्यः स्यात्तस्माद्वृत्तिविषये दधिशब्द उपसिक्तार्थवृत्तिगुंडशब्दो मिश्रार्थवृत्तिरिति वाक्येनोपदय॑ते ।। ३. १. २३ ।।
10
सहस्तेन ॥३. १. २४ ॥
सह इत्येतनाम तुल्ययोगे विद्यमानार्थे च वर्तमानं तेनेति तृतीयान्तेननाम्नाऽन्यपदार्थे समस्यते स च समासो बहुव्रीहिसंज्ञो भवति । तुल्ययोगे-सह पुत्रेण सपुत्र आगतः, सन्छात्र आगतः,-आगमनमुभयोस्तुल्यम्, विद्यमानार्थेसहकर्मणा वर्तते सकर्मकः, एवं सलोमकः, सपक्षकः, सधनः, समदः, सदर्पः, 15 सविद्यः,-विद्यमानतात्र सहार्थो न तुल्ययोगः । सह इति किम् ? साकं सार्धं सत्रा अमापुत्रेण । बहलाधिकारात विद्यमानार्थे क्वचिन्न भवति । सहैव दशभिः पुत्रैर्भारं वहति गर्दभी, सहैव धनेन भिक्षां भ्रमति । प्रथमान्तान्यपदार्थार्थ प्रारम्भः । एवमुत्तरत्रापि ।। २४ ।।
न्या० स०--सहस्तेन-तेनेति तृतीयान्तप्रतिरूपकान्निपातात् तृतीया। न तुल्य-20 योग इति-ननु तुल्ययोगविद्यमानार्थयोः को भेदः ? उच्यते, क्रियागुणद्रव्यैरुभयोः सदृशः संबन्धस्तुल्ययोगः, विद्यमानार्थता तु न तथा, तथाहि-सकर्मकादात्मनेपदमित्युक्त यथ धातोरात्मनेपदं भवति, न तथा कर्मणोऽपि, तथा सलोमको भोज्यतामिति यथा देवदत्तो भोज्यते, न तथा लोमान्यपि, तथा सपक्षक: खगो हत इत्यत्र यथा पक्षी हतो, न तथा पक्षा अपोति भावः । क्वचिन्न भवतीति तुल्ययोगे तु भवत्येव । वहति गईभीति अत्र23 . तत्पुत्राणामस्तित्वमेव विवक्षितं, न तु वहन क्रियेति विद्यमानार्थता ।। ३. १. २४ ।।
दिशो रूढयान्तराले ॥ ३. १. २५ ॥ रूढया दिशः संबन्धि नाम रूढय व दिशः संबन्धिना नाम्नाऽन्तरालेऽन्य