________________
४३८ ]
बृहत्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० २३.]
अस्योदाहरणस्यायमर्थः यथा कश्चित् केनचित् पृष्टः कीदृशः कुलशीलादिना तत्र पितेति ? । साह-यथा मे मातेति, अथवा स्नाहीति कश्चिदक्तः स आह यथा मे मातेति, यथा शद्धा मे माता तथा पितापीत्यभिजनशुद्धिरपि स्नानं किं बाह्य न स्नानेन, ततः सुस्नातं भो इति । ननु द्वितीयाद्यन्यार्थ इत्यत्र किमर्थग्रहणम् ?, अन्यपदं हि शब्दः, शब्दस्य च कार्य न संभवतीत्यर्थो लप्स्यते ? इत्याह-शब्दे कार्येत्यादि सत्यमेतत्, लप्स्यत एवार्थः किंतु तत् 5 सद्रव्यस्य सलिङ्गस्य ससंख्यस्य कृत्स्नस्य अभिधानं यथा स्यादित्येवमर्थं कृतमस्त्र्यारोपाभावे इति लिङ्गानुशासननिरपेक्षम् ।। ३. १. २२ ।।
उष्ट्रमुखादयः ॥ ३. १. २३ ॥
उष्ट्रमुखादयो बहुलं बहुव्रीहिसमासा निपात्यन्ते। उष्ट्रमुखमिव मुखमस्य उष्ट्रमुखः, वृषस्कन्ध इव स्कन्धोऽस्य, वृषस्कन्धः, हरिणाक्षिणी10 इवाक्षिणी यस्याः सा हरिणाक्षी, हंसगमनमिव गमनं यस्याः सा हंसगमना, इभकुम्भाविव स्तनौ यस्याः सेभकुम्भस्तनी, एवं नागनासोरुः, चन्द्रमुखी, कमलवदना, बिम्बोष्ठी, चक्रनितम्बा, पितुरिव स्थानमस्य पितृस्थानः, पितरीव स्थानीयमस्मिन् पितृस्थानीयः, इत्यादि । अत्रोपमानमुपमेयेन सान्यवाचिना च सह समस्यते। उपमेयसरूपस्य चोपमानपदस्य यथासंभवं लोपः-कण्ठे15 स्थिता इत्यलुप्समासः । ततः कण्ठेस्थिताः काला यस्य स कण्ठेकाल:, एवमुरसिस्थितानि लोमान्यस्योरसिलोमा, एवमुदरेमणिः, वहेगडुः इत्यादिषु सप्तमीपूर्वपदं समानाधिकरणं समस्यते उत्तरपदस्य च लोपः। व्यधिकरणो वा कण्ठेकालादिषु बहुव्रीहिः । केशसंघातश्च डा अस्य केशचूड: सुवर्णविकारोऽलंकारोऽस्य सुवर्णालंकारः इत्यादिषु संघातविकारापेक्षया षष्ठया2c समस्तं समानाधिकरणं समस्यते उत्तरपदलोपश्च । केशसंघातचूडः, सुवर्णविकारालंकारः इत्यप्यन्यः । तथा प्रपतितानि पर्णान्यस्य प्रपर्णः, प्रतितपर्णः, प्रपलाशः, प्रपतितपलाशः । उद्रश्मिः, उद्गतरश्मिरित्यादिषु प्रादिपूर्वं धातुजं पदं समस्यते तस्य च विकल्पेन लोपः। तथा अविद्यमानः पुत्रोऽस्य अपुत्रः, अविद्यमानपुत्रः इत्यादिषु नञ्पूर्वमस्त्यर्थं पदं समस्यते तस्य2. च वा लोपः । बहुवचनमाकृतिगणार्थम् ।। २३ ।।
न्या० स०-उष्ट्रमुखादयः। उपमानमुपमेयेन समस्यमानं न एकार्थतां भेजे स एव चन्द्रस्तदेव मुखं न भवत्यतो भिन्नसूत्रम् । सामान्यवाचिना चेति साधारणधर्म