________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ४३७
न्या० स० -- एकार्थं च० । अत्र बहुव्रीहेरेव ग्रहणमत आह-एकः समानेत्यादि । उपहृत बलिर्यक्षीति प्रत्रोपहृतिक्रियाकर्म्मरणा संबध्यमानाया यक्ष्याः संप्रदानत्वमुपहरणस्य दानरूपत्वात् । समानोऽर्थोऽधिकरणमिति यथा श्रारूढो वानरो यमित्यत्र ग्रारूढोऽपि सः वानरोऽपि सः । चित्रगुश्चैत्र इति ननु चित्रा गावो यस्येत्यत्र हि देवदत्तार्थो विशेषणं, चित्रगव्यो विशेष्यं, वृत्तौ च चित्रगव्यो विशेषणं, देवदत्तार्थो विशेष्यं तदेतत् कथमुच्यते ? - 5 विचित्रा हि शब्दशक्तय इति । नन्वन्यस्य पदस्यार्थाभिधाने चित्रगुश्चैत्र इत्यादावऽनुप्रयोगानुपपत्ति: चैत्रपदस्य हि यावानर्थस्तावान् बहुव्रीहिणा वक्तव्यो, द्वितीयाद्यन्यार्थे तस्य विधानात्ततो गतार्थत्वादनुप्रयोगो न प्राप्नोति, यथा चार्थे द्वंद्वविधानाद् द्वंद्व े चकारस्याप्रयोगः ।
[ पा० १. सू० २२. ]
नैष दोष:, चित्रगुशब्देन तद्वन् मात्रसामान्यमुच्यते, न तु विशेष इति तत्रावश्यं 10 विशेषणार्थिना विशेषार्थिना विशेषोऽनुप्रयोक्तव्यः । चित्रगुः कः ? चैत्र इति । ननु भवतु चित्रा गावोऽस्येत्येवं सामान्येन समासे कृतेऽन्यपदार्थसामान्यस्य बहुव्रीहिणाऽभि धानाद् विशेषस्याऽनुप्रयोगः । यदा तु चित्रा गावोऽस्य देवदत्तस्येति विशिष्टेऽन्यपदार्थे बहुव्रीहिः क्रियते, तदाऽनुप्रयोगासिद्धि: ? नैवं यतो नेदमुभयं युगपद् भवति वाक्यं समासश्च, लौकिके प्रयोगे वृत्तिवाक्ययोर्युगपत्प्रयोगाभावादेकेनैवार्थस्य प्रत्यायितत्वा - 15 दितराप्रयोगात्, तत्र यदा तु वाक्यं न, तदा समासः सामान्येन तदा वृत्तिः शब्दशक्तिस्वभावादन्यपदार्थसामान्यमभिधातुं शक्नोति न तु विशेषमिति ।
वा विकल्पेन
नर: वने रमते 'क्वचित्' [ ५.१.१७१.] इति डे वनरस्तस्यायमिति वा वानरः, श्रन्तेषु शितीनीति अर्थकथनमिदं विग्रहस्तु प्रन्तशितीनीति, अवान्तरः समासः कार्यः । सूक्ष्मजटाः केशा इत्यत्र सूक्ष्मा जटा येषां केशानामिति ततस्त्रिपदो बहुव्रीहिः, शोभनं नतं तत: 20 सुनतमजिनं वासोऽस्येति बहुव्रीहिः, वृत्तौ तूभयसमासप्रदर्शनाय सामान्येन वाक्यमुक्त, अन्यथैकार्थत्वं न स्यात् । पञ्चनावप्रिय इत्यत्राटि समासान्तात् ङीर्न बाधन्ते स्वार्थकाः
क्वचिदित्यतः अकारान्तान्नाम्नो ङीविधानात् समासमध्ये ङीनं भवतीति न्यासकारः, हि कथं पूर्ववीप्रिय इत्यादि ? कश्चित्तु मध्येऽपि ङीप्रत्ययमिच्छति ।
यथा मे माता तथा मे पितेति मे मातेत्याद्यर्थकथनमात्रं यावता मे माता मन् - 25 मातेति तु विग्रहः, ततो यथेति मन्मात्रिति तथेति च त्रयाणां पदानां मत्पित्रा सह समासः ( प्राप्तः न च वाच्यं एकार्थत्वाभावान्न समास: ), यतो स एव मातृसदृशः स एव मत्पितेत्येकार्थत्वमस्ति ।
सुस्नातं भोरिति अन्यपदार्थोऽस्ति इति समासः प्राप्नोति, अत्रोच्यते - प्रत्यासत्तेः समस्यमानयोरेव पदयोरन्यपदार्थे समासोऽत्र तु समुदायस्य तस्य वाक्यस्य तात्पर्यार्थो 30 नावयवभूतयोः पदयोर्वाच्योऽन्योऽर्थं इति न भवत्येव समासः, समासे हि यथामन्मातृ तथामत्पितृकः स्यात्, द्वितीयाद्यन्यार्थ इति प्रथमा व्यवच्छेद्या तथा वाक्यार्थश्च तेन वाक्यार्थे न भवति यथा मे माता तथा मे पिता सुस्नातं भोरिति एतदेवं भाव्यते ।