________________
४३६ ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० १. सू० २२.]
एकार्थ चामेकं च ॥ ३. १. २२ ॥
एकः समानोऽर्थोऽधिकरणं यस्य तदेकार्थम् समानाधिकरणम् एकमनेक चैकार्थं नामाव्ययं च नाम्ना द्वितीयाद्यन्तस्यान्यस्य पदस्यार्थे समस्यते स च समासो बहुव्रीहिसंज्ञो भवति । आरूढो वानरो यं स आरूढवानरो वृक्षः, ऊढः रथः येन स ऊढरथोऽनड़वान, उपहृतो बलिरस्यै सा उपहृतबलिर्यक्षी, 5 भीताः शत्रवो यस्मात् स भीतशत्रुर्नपः, चित्रा गावो यस्य स चित्रगुश्च त्रः, के सब्रह्मचारिणोऽस्य किंसब्रह्मचारी, अर्धं तृतीयमेषामधेतृतीयाः, वीराः पुरुषाः सन्त्यस्मिन् वीरपुरुषको ग्रामः, अनेकं च-पारूढा बहवो वानरा यं स आरूढवहुवानरो वृक्षः, ऊढा बहवो रथा अनेन ऊढबहुरथोऽनड्वान् । शोभनाः सूक्ष्मजटाः केशा अस्य सुसूक्ष्मजटकेशः, शोभनं नतमजिनंवासोऽस्य 10 सुनताजिनवासाः, संजातानि अन्तेषु शितीनि रन्ध्नाण्यस्मिन् समन्तशितिरन्ध्रः, पञ्च गावो धनमस्य पञ्चगवधनः, पञ्च नावः प्रिया अस्य पञ्चनावप्रियः, मत्ता बहवो मातङ्गा यत्र तन्मत्तबहुमातङ्ग वनम्, पञ्च पूला धनमस्य पञ्चपूलधनः, पञ्च कुमार्यः प्रिया अस्य पञ्चकुमारीप्रियः, 'नाम नाम्ना०' [३. १. १८.] इति विवक्षितसंख्यत्वादनेकस्य समासो न स्यादित्यनेक-15 ग्रहणम् । अव्ययं खल्वपि-उच्चैर्मुखमस्य उच्चैर्मुखः, एवं नीचैर्मुखः,अन्तरङ्गान्यस्यान्तरङ्गः, एवं बहिरङ्ग:-कतु कामोऽस्य कर्तु कामः, हतु मनोऽस्य हतु मनाः । व्यधिकरणत्वादव्ययस्य न प्राप्नोतीत्यव्ययानुकर्षणार्थश्चकारः। सामानाधिकरण्ये तु 'एकार्थम्-' [३. १. २२.] इत्यनेनापि सिध्यति । अस्ति क्षीरमस्या अस्तिक्षीरा गौः, अस्तिधना राजधानीत्यादि 120 क्रियावचनत्वे त्वस्त्यादीनां 'नाम नाम्ना'-[ ३. १. १८. ] इत्यादिनैव बहुलवचनात् सिद्धम् एकार्थग्रहणं किम् ? पञ्चभिर्भुक्तमस्य । द्वितीयाद्यन्यार्थ इत्येव, वृष्टे मेघे गतः, यथा मे माता तथा मे पिता, सुस्नातं भोः । इह कस्मान्न भवति-वृष्टे मेघे गतं पश्य, वहिरङ्गात्र द्वितीयान्ततेति । शब्दे कार्यासंभवादर्थे लब्धे यदर्थग्रहणं तदन्यपदार्थस्य या लिङ्गसंख्याविभक्तयस्ता यथा25 स्युरित्येवमर्थम् । बहुलाधिकारात् राजन्वती भूरनेन, प्राग्ग्रामोऽस्मात्, पञ्च भुक्तवन्तोऽस्य, इत्यादिषु न भवति ।। २२ ।।