________________
[पा० १. सू० २१.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ४३५
न पुवन्निषेधः, अन्यथा कोपान्त्यद्वारा तन्निषधः स्यात्, एवमधिकत्रिंशा इत्यपि । अर्द्धपञ्चविशा इति यद्यप्यध्यर्द्धस्यार्द्धादिपूरणस्य च 'कसमासेऽध्यर्द्धः' [१. ४. ४१.] 'अर्द्धपूर्वपदः पूरणः' [१. १. ४२.] इत्याभ्यां संख्यासंज्ञाऽस्ति, तथापि पूर्वेण सुज्वार्थे संख्यायाः समासस्याविधीयमानत्वान्न सिध्यतीत्यपादानं, 'प्रत्ययः प्रकृत्यादेः' [७. ११५.] इति न्यायेन पूरणप्रत्यये मटि पञ्चमीत्यस्य पूरणप्रत्ययान्तता नार्द्धपञ्चमेत्यस्य । तेन तद्धिताक' [ ३. २. ५४. ] इति न पुवन्निषधः:, अर्धपञ्चमी विंशतिर्यासु 'पूरणीभ्यस्तत् प्राधान्येऽप्' [ ७. ३. १३०. ] अर्द्ध पञ्चम्याः चतस्रो विंशतय पूर्णाः पञ्चमी विशतिर मित्यर्थः ।
संनिकृष्टदशान इति अत्र 'प्रमाणीसंख्याड्डः' [७. ३. १२८.] इति न भवति, तत्र प्रतिपदोक्तस्य समासस्य ग्रहणात् । अर्धद्वया विंशतयो येषामिति अर्द्ध द्वयं विंशतिर्यासु10 एक दशकलक्षणमर्द्ध द्वितीयं तु द्विभागीकृतं किं भवति पञ्च। अधिकषष्टिवर्ष इत्यत्र अधिका षष्टिर्वर्षाण्यस्य इति विग्रहे 'दिगधिकं संज्ञा' [ ३. १. ९८.] इति कर्मधारयतत्पुरुष इति 'पुवत् कर्मधारये' [ ३. २. ५७. ] इत्यादिना बाधकबाधनार्थः पुवद्भावो भवति, यदा तु 'आसन्नादूरा' [ ३. १. २०.] इत्यमुना द्विपदो बहुव्रीहिः स्यात्तदा 'तद्धिताक' [३. २. ५४. ] इत्यादिना पुवनिषेधः स्यात् । ननु यथा बहुव्रीहिणा15 विभक्त्यर्थस्याभिधानात् षष्ठ्यादयो न भवन्त्येवं लिङ्गसंख्ययोरभिधानात् तयोर्योतकत्वात्
यादयो न प्राप्नुवन्ति । स्वार्थिकत्वात् ङ्यादीनां समासेन अभिहितेऽपि स्त्रीत्वादौ तद्द्योतनाय भवन्ति, स्त्रियां यद्वर्त्तते नाम तस्मात् ङ्यादयो भवन्तीति हि तत्रार्थः, तथा चित्रगुरिति समासेन नामार्थमात्रस्य कर्मादिशक्तिरहितस्यैकत्वादय उक्तास्ततः कर्मादिगतैकत्वप्रतिपादनाय वचनानि भवन्ति, चित्रगुपश्य चित्रगुणा कृतमिति प्रथमा20 तहि न प्राप्नोति समासेन संख्याया अभिधानात् ?
नैवं, सापि न केवला प्रकृतिः प्रयोक्तव्या, न च केवलः प्रत्यय इति समयाद् भविष्यति, अथवा यदा चित्रगुरेकत्वविशिष्टो नामार्थः प्रतिपिपादयिषितस्तदा विभक्त्या विनाऽसौ न शक्यते प्रत्याययितुमिति प्रथमैकवचनं विधेयमेवं द्वित्वबहुत्वयोद्विवचनबहुवचनविधिः ।। ३. १. २०. ।।
25
अव्य
यम् ॥३. १. २१ ॥
अव्ययं नाम संख्यावाचिना नाम्नैकार्थ्य समस्यते द्वितीयाद्यन्यार्थे संख्येयेऽभिधेये स च समासो बहुव्रीहिसंज्ञो भवति । उप समीपे दश येषां ते उपदशाः, नवैकादश वा, एवमुपविशाः, उपत्रिंशाः, उपचत्वारिंशाः । योगविभाग उत्तरार्थः ।। २१ ।।
30