________________
[पा० १. सू० २०.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ४३३
बहुव्रीहिसंज्ञं च भवति । द्विर्दश द्विदशाः, त्रिर्दश त्रिदशाः, द्विविंशतिः द्विविंशाः,एवं त्रिविशा वृक्षाः, सुजर्थस्य समासेनैवाभिहितत्वात् सुचोऽप्रयोगः । द्वौ वा त्रयो वा द्वित्राः, त्रिचतुराः, पञ्चषाः, सप्ताष्टाः । सुज्वार्थ इति किम् ? द्वावेव न त्रयः । संख्येति किम् ? गावो वा दश वा। संख्ययेति किम् ? दश वा गावो वा। संख्येये इति किम् ? द्विविंशतिर्गवाम् । बहुव्रीहिप्रदेशा 'वा 5 बहुव्रीहे' [२. ४. ५.] इत्यादयः ।। १६ ।।
न्या० स०-सुज्वार्थे। विकल्पः संशयो वेति ननु विकल्पसंशययोः को भेदः ? उच्यते, निर्णये सति विकल्पः, यथा देवदत्तो भोज्यतां चैत्रो वा, यद्वा विकल्पे क्रियाप्रवृत्तिः संशये तु न। विकल्पे क्रियाप्रवृत्तिर्यथा द्वित्रेभ्यो देहि भोजनं, ततश्च द्वाभ्यां त्रिभ्यो वा देहीति विकल्पो गम्यते, अस्मिन् सति क्रियाप्रवृत्तिः, संशये क्रियाप्रवृत्त्यभावो10 यथा पुरुषेभ्यो देहीत्युक्त त्रिभ्यो दापितं चतुर्यो वेति संशेते, न जाने त्रयश्चत्वारो वा आगता इति च संशयः अनिर्णयरूपः प्रतिभासः, ननु द्विदशा इत्यादौ वाऽर्थे द्वित्रा इत्यादौ तु सन्निकृष्टसंख्याभिधायिनि सुजथे समासः कस्मान्न क्रियते ? उच्यते, यदि नेष्यते तदाऽनभिधानात् ।। ३. १. १६ ।। आसन्नादूराधिकाध्यर्धार्धा दिपूरणं दिवतीयाद्यन्यार्थे 15
॥३. १. २० ॥ आसन्न, अदूर, अधिक, अध्यर्ध इत्येतानि अर्धशब्दपूर्वपदं च पूरणप्रत्ययान्तं नाम संख्यावाचिना नाम्नैकार्थ्य समस्यते द्वितीयाद्यन्तस्यान्यस्य पदस्यार्थे संख्येयरूपेऽभिधेये स च समासो बहुव्रीहिसंज्ञो भवति । आसन्ना दशा दशत्वं येषां येभ्यो वा ते आसन्नदशाः, नवैकादश वा, एवमासन्नविंशाः,20 एकोनविंशतिः, एकविंशतिर्वा, आसन्नत्रिंशाः, एकोनत्रिंशदेकत्रिंशद्वा, एवम्अदूरदशाः, अदूरविंशाः, अदूरत्रिंशाः, अधिका दश येभ्यो येषु वा तेऽधिकदशाः, एकादशादयः, अधिकत्वं च दशानाम् एकाद्यपेक्षम् । अवयवेन विग्रहः समुदायः समासार्थः। एवम्-अधिकविंशाः एकविंशत्यादयः, अधिकत्रिंशाः एकत्रिंशदादयः, अध्यर्धा विंशतिर्येषां तेऽध्यर्धविंशाः, त्रिंशदित्यर्थः, एवमध्यर्धत्रिंशाः,25
अध्यर्धचत्वारिंशाः । अर्धपञ्चमा विंशतयो येषां ते अर्धपञ्चविंशा:। नवतिरित्यर्थः, एवमर्धचतुर्थविशा:-सप्ततिरित्यर्थः, अर्धतृतीयविंशाःपञ्चाशदित्यर्थः । आसन्नादिग्रहणं किम् ? संनिकृष्टा दश येषां ते