________________
४३२ ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० १. सू० १६.]
नित्यत्वाच्छब्दार्थसंबन्धानामदूरविप्रकर्षण हि बालव्युत्पत्तये वाक्यमुपदर्श्यते, न हि ' वाक्यमेव समासीभवति, विभक्त रपि स्वयमेव तदर्थाभावात् या निवृत्तिः सा ऐकायें इत्यनेनानूद्यते, न तु विधीयते ।
लक्षणं चेदमिति ननु अधिकारोऽयं लक्षणं वा उभयमपि ब्रमः, अधिकारस्तावद् देवदत्तः पचतीत्यत्र विशेषसमासनिवृत्यर्थः, अन्यथा हि पचतीत्यनेन कर्तृ सामान्यं यदुपात्तं 5 तद्देवदत्त इत्यनेन कर्तृ विशेषेण विशेष्यते इति सामानाधिकरण्येन विशेषणविशेष्यभावोऽस्ति, ननित्यादावुत्तरपदानुपादाने उत्तरपदोपस्थानार्थश्च, लक्षणं च यस्य समासस्यान्यल्लक्षणं नास्ति तस्येदं लक्षणं, तेन विस्पष्टादीनि गुणविशेषणानि गुणवचनेन विस्पष्टं पटुः विस्पष्टपटुः इति समस्यन्ते, पटवादयः शब्दाः पटुत्वादिगुणयोगात् मुख्यतया गुणिनि वर्तमाना अपि गौणतया पाटवादावपीति । विस्पष्टादयः पटवादीनां10 प्रवृत्तिनिमित्तस्य पाटवादेविशेषणानि, न तु द्रव्यस्येति विस्पष्टमिति नपुसकत्वं, अत एव मुख्यं सामानाधिकरण्यं नास्ति इति कर्मधारयतत्पुरुषाभावः । काष्ठा परं प्रकर्षमिति काष्ठाशब्दस्य स्त्रीलिङ्गस्य क्रियाविशेषणत्वान्नपुसकत्वे 'अनतो लुप्' [ १. ४. ५६. ] भवति, ह्रस्वत्वं तु बाहुलकान्न भवति, सोमपं कुलमित्यत्र कुलस्य विशेषणत्वे क्लोबत्वमेवेति ह्रस्वत्वं भवत्येव ।
15
ऊर्ध्वमोहत्तिकमिति ऊवं मुहर्तादयो भवः कालः तत्र भवः 'अध्यात्मादिभ्य इकण्' [ ६. ३. ७८.] इकण्, सप्तमो चोर्ध्वमोहूर्तिक इति निर्देशादुत्तरपदवृद्धिः । वाससीइवेति अत्रोत्तरपदप्राधान्यात् से 'अव्ययस्य' [३. २. ७.] इति लुप् । एवं दृष्टपूर्व इति पूर्वं दृष्टा इत्यपि कृते निपातनात् ह्रस्वत्वं, तेन न मे श्रुता, नापि च दृष्टपूर्वति सिद्धम् । सामान्येन समासं कृत्वा पश्चाद् स्त्रीत्वे वा। चरन्ति गावो धनमस्येति अत्र20 समासे चरन्ति गुरिति स्यात् । नित्यसंध्यादिरिति ऐकपद्यात् 'ह्रस्वोऽपदे वा' [ १. २. २२. ] इति ह्रस्वविकल्पाप्रवृत्तेनित्यं यत्वादि भवतीत्यर्थः, अन्ये त्वाहुः एको द्वावित्यादिवदुक्त ष्वप्येकत्वादिषु नामार्थत्वात् केवलायाश्च प्रकृतेः प्रयोगाभावाद् भाव्यमत्र प्रथमैकवचनेन तस्य च 'दीर्घङ याब्' [ १. ४. ४५. ] इत्यनेन लुप् 'अनतो लुप्' [ १. ४. ५६. ] इति तन्मतग्रहणायाह-पदत्वार्थमिति। त्याद्यन्तार्थप्राधान्यादिति त्याद्यन्तस्य साध्यार्थ-25 प्रधानत्वादसत्त्ववाचित्वं असत्त्वं च सामान्यं, सामान्यं च नपुंसकं ततः 'अनतो लुप्' [ १. ४. ५६.] ।। ३. १. १८ ।।
सुज्वार्थे संख्या संख्येये संख्यया बहुव्रीहिः
॥३. १. १६ ॥ सुचोऽर्थो वारः, वार्थों विकल्पः संशयो वा, सुज्वार्थे वर्तमानं30 संख्यावाचि नाम संख्येये वर्तमानेन संख्यावाचिना नाम्ना सहकार्यों समाससंज्ञं