________________
[पा० १. सू० १८.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ४३१
नामत्वेऽपि संख्यायास्त्यादिभिरेवोक्तत्वात्स्यादयो न भवन्ति, पदत्वार्थमुत्पन्नस्य वा प्रथमैकवचनस्य त्याद्यन्तार्थप्राधान्यात् नपुंसकत्वे लोपो भवति । समासप्रदेशा 'वौष्ठौतौ समासे' [१. २. १७.] इत्यादयः ।। १८ ।।
न्या० स०--नाम नाम्नैकार्थ्य० । ननु चात्र सहग्रहणं कर्त्तव्यं, सहभूतयोः समाससंज्ञार्थम्, न च नाम्नेति तृतीयया सहयोगाक्षेपात् 'वृद्धो यूना' [ ३. १. १२४. ] " इतिवत् एकैकस्य न भविष्यतीति वक्तव्यं, यथा पुत्रेण सहागत इति द्वयोरपि तातपुत्रयोरागमनेन संबन्ध एवमेकैकस्य समाससंज्ञा स्यात्, सहग्रहणात्त्वेका समाससंज्ञा सहभूतयोर्भवति, दोषाभावात् (एकैकस्य समाससंज्ञेतिशेषः) भवत्विति चेत्, यद्यपि समुदायरूपवाक्यवर्जनात् पर्युदासात् समाससमुदायस्य नामत्वे दोषाभावः, तथापि ऋक्पाद इत्यादौ समासान्ते दोषः ? सत्यं, यथा प्रत्यवयवं वाक्यपरिसमाप्तिदृष्टा यथा यज्ञदत्तदेवदत्त-10 विष्णुमित्रा भोज्यन्तामिति, न चोच्यते प्रत्येकमिति प्रत्येकं च भूजिक्रिया समाप्यते, एवमत्राऽपि (स) प्रत्येकं समाससंज्ञा सत्यपि नोच्यते, यद् वा समास इति महतीयं संज्ञा अन्वर्था विज्ञायते. समस्यन्ते, संक्षिप्यन्ते पदान्यस्मिन्निति, समूदायविषयायां तु संज्ञायां पूर्वोत्तरपदयोरेकत्वेन न्यसनं भवति, तस्मात् समास इति समुदायस्यैवेयं संज्ञा विज्ञायते, न प्रत्येकमिति, सहग्रहणमन्तरेणापि तदर्थलाभात् सहग्रहणं न कर्त्तव्यमिति ।
15 __ क्वचिदिति यत्र सर्वाणि सत्वार्थाभिधायीनि पदानि भवन्ति, यत्र त्वेकमसत्वार्थाभिधाय्युपकुम्भमित्यादौ तत्र सामर्थ्यमननुभूयैव समासोऽत आह-क्वचिदित्यादि । सामर्थ्यमनुभूय भवतीति ननु अनुभूयेत्यत्र भवनक्रियायाः सामर्थ्यविशेषः कर्ता अनुभवनक्रियायास्तु पदानि कतृ 'णि इति भिन्नकर्तृ कतायां क्त्वा न प्राप्नोति ? नैवं, वर्त्तनक्रियाऽपेक्षया तुल्यकर्तृत्वं, वर्त्तनक्रियायास्तु पदान्येव कतृ णि कोऽर्थः-पदानां सामर्थ्यमनुभूय वर्त्त-20 मानानां सामर्थ्य विशेषो भवति, न च वाच्यमनुभवनक्रियाया भवनक्रियायाश्च सामर्थ्यविशेष एव कर्तेति तुल्यकर्तृत्वं, यतः परस्परव्यपेक्षा पदानामेव संभवतीत्यनुभवनक्रियायाः पदान्येव कतृ गि। अननुभूयैवेति नित्यसमासत्वादिति शेषः, जामदग्न्य इति प्रथमापत्यस्याऽपि पौत्रकार्यकरणाद् वृद्धत्वविवक्षायां 'गर्गादेर्यञ्' [ ६. १. ४२. ] । राजपुरुष इति ननु द्विधा वृत्तिरजहत्स्वार्था जहत्स्वार्था च तत्राद्यायां राजपुरुष इत्यादौ विशिष्टस्य25 पुरुषस्यानयनं घटते द्वितीयायां तु पुरुषमात्रस्य न जातुचिद् राजविशिष्टस्य ? नैतदस्ति, जहदपि राजशब्दः स्वार्थं नात्यन्ताय जहाति, तद्यथा तक्षा राजकर्मणि प्रवर्त्तमानः स्वं तक्षकर्म राजकर्मविरोधि जहाति, नाविरुद्ध हसितकण्डूयितादि, तथा राजशब्दोऽपि विशेष्यार्थविरोधिनमर्थं जहाति न तु विशेषणत्वम् । अथवाऽन्वयाद् राजविशिष्टस्य ग्रहणं यथा चम्पकपुटो मल्लिकापुट इति । सुमनोमालास्तीति निष्ठितास्वपि सुमनस्सु30 , व्यपदेशोऽन्वयाद् भवति, तथेहापि, तेन राजविशिष्टस्यानयनं न पुरुषमात्रस्येति, क्वचिदननुभूयेत्यत्र तदयं वस्तुसंक्षेपः राजपुरुषादीनि शब्दान्तराण्येव न जातुचिद् राज्ञः पुरुषः इति वाक्यगम्यो व्यपेक्षालक्षणोऽर्थस्तस्मात् प्रतीयते, भिन्नार्थान्येव हि एतानि शब्दरूपाणि