________________
४३० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० १८.]
नाम नाम्नैकाथ्य समासो बहुलम् ॥ ३. १. १८ ॥
नाम नाम्ना सहैकार्थ्ये एकार्थीभावे सति समाससंज्ञं भवति बहुलम्, ऐकार्थ्यं च सामर्थ्य विशेषः । स च पृथगर्थानां पदानां क्वचित्परस्परव्यपेक्षालक्षणं सामर्थ्यमनुभूय भवति, यथा-राज्ञः पुरुषो राजपुरुषः, नीलं च तदुत्पलं नीलोत्पलम् । क्वचित् अननुभूयैव भवति, यथा-उपकुम्भम्, 5 कुम्भकारः, वाक्यान्तरेण त्वर्थः प्रदर्श्यते कुम्भस्य समीपं-कुम्भं करोतीति । क्वचिन्न भवत्येव, यथा छात्राणां पञ्चमः, रामो जामदग्न्यः इति लक्षणं चेदमधिकारश्च । तेन बहुव्रीह्यादिविशेषसंज्ञाभावे यत्रैकार्थता दृश्यते, तत्रानेनैव समाससंज्ञा भवति-विस्पष्टं पटुः, विस्पष्टपटुः, विचित्रं कटुकः; विचित्रकटुकः, एवं-विविक्तकषायः । व्यक्तलवणः, संपन्नमधुरः, पट्वम्लः,10 निपुणपण्डितः, कुशलदक्षः, चपलवत्सलः इत्यादिषु गुणविशेषणस्य गुणवचनेन समासः । काष्ठा परं प्रकर्षमध्यायक:-काष्ठाध्यायकः । दारुणमध्यायकःदारुणाध्यायकः, अमातापुत्रमध्यायकः-अमातापुत्राध्यायकः, निष्ठुरमध्यायक इत्यर्थः, वेशं सुभगमध्यायकः-वेशाध्यायकः । एवमनाज्ञाताध्यायकः, अयुताध्यायकः, अद्भ ताध्यायकः भृशाध्यायकः, घोराध्यायकः, परमाध्यायकः,15 स्वध्यायकः, अत्यध्यायक: इत्यादिषु क्रियाविशेषणस्य क्रियावता समासः । तथा-सर्वश्चर्मणा कृतः सर्वचर्मीणो रथः, अद्य श्वो वा विजायते अद्यश्वीना गौः, दशभिरेकादश गृह्णाति दशैकादशिकः, ऊध्वं मुहूर्ताद्भवम्-ऊर्ध्वमौहर्तिकम्, एवमौर्ध्वदेहिकम्, और्ध्वदमिकम् ; कृतः पूर्वं कटोऽनेन कृतपूर्वी कटम्, भुक्तपूर्वी प्रोदनम्, गतपूर्वी ग्राममित्यादिषु तद्धितार्थे समासः । तथा20 कन्येइव, दंपतीइव, वाससीइव, रोदसीइवेत्यादिष्विवेनालुप् समासः । एकपद्यं च समासफलम् । तथा-भूतः पूर्वं भूतपूर्वः, एवं दृष्टपूर्वः, श्रुतपूर्वः । सर्वेषु चैषु विशेषसंज्ञाऽप्राप्तौ अनेनैव समासः । बहुलमिति शिष्टप्रयोगानुसरणार्थम् नामेति किम् ? चरन्ति गावो धनमस्य । नाम्नेति किम् ? चैत्रः पचति । बहुलवचनादेव क्वचिदनामापि समस्यते,-भात्यर्कोऽत्रेति भात्यर्क नभः, नभसा25 सामानाधिकरण्यं समासफलम् । क्वचिदनाम्नापि-अनुव्यचलत्, अनुप्रावर्षत्, यद् व्यकरोत्, यत् परियन्ति । अत्र नित्यसंध्यादिः समासफलम्, समासस्य च