________________
[पा० १. सू० १५-१७.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ४२६
नित्यं हस्तेपाणावाहे ॥ ३. १. १५ ॥
हस्तेपाणावित्येतौ सप्तम्येकवचनान्तप्रतिरूपकावव्ययौ, सप्तम्यन्तावनव्ययावित्येके, तावुद्वाहे दारकर्मण्यर्थे गम्यमाने कृगो धातोः संबन्धिनौ गतिसंज्ञौ नित्यं भवतः, तस्माच्च धातोः प्राक् प्रयुज्यते । हस्तेकृत्य, पारणौकृत्य,-भार्यां कृत्वेत्यर्थः । उद्वाह इति किम् ? हस्ते कृत्वा कार्षापणं 5 गतः । नित्यग्रहणाद्वानिवृत्तिः ॥ १५ ॥
15
प्राहवं बन्थे ॥ ३. १. १६ ॥
प्राध्वमित्येतन्मकारान्तमव्ययमानुकल्ये वर्तते, तच्चानुकल्यं यदा बन्धहेतुकं भवति, तदा बन्ध इत्युच्यते, अनेकार्थत्वाद्वा निपातानां मुख्य एवास्य बन्धोऽर्थः, तत्र वर्तमानः प्राध्वंशब्द: कृगो धातोः संबन्धी गतिसंज्ञो भवति,10 तस्माच्च धातोः प्रागेव प्रयुज्यते । प्राध्वंकृत्य, बन्धनेनानुकूल्यं कृत्वेत्यर्थः । बन्ध इति किम् ? प्राध्वं कृत्वा शकटं गतः ।। १६ ।।
न्या० स०--प्राध्वं बन्धे। बन्धहेतुकमिति बन्धजनितमित्यर्थः, दुष्टाश्वादिर्हि बन्धनेनानुकूल्ये व्यवस्थाप्यते । बन्ध इत्युच्यते इति कार्ये कारणोपचारात्, कारणं बन्धः, कार्यमानुकूल्यं बन्ध एवानुकूल्ये वर्तते ॥ ३. १. १६ ।।
जीविकोपनिषदौपम्ये ॥ ३. १. १७ ॥
जीविकोपनिषच्छब्दौ प्रौपम्ये गम्यमाने कृगो धातोः संबन्धिनौ गतिसंज्ञौ भवतः तस्माच्च धातोः प्रागेव प्रयुज्यते । जीविकाकृत्य, उपनिषत्कृत्य, जीविकामिवोपनिषदमिव कृत्वेत्यर्थः । प्रौपम्य इति किम् ? जीविकां कृत्वा, उपनिषदं कृत्वा गतः ।। १७ ।।
न्या० स०--जीविकोपनिषदौपम्ये जीवनं जीविका 'भावे' [ ५. ३. १२२. ] इति णकः, तत आपीत्वे च जीविका अथवा जीव्यतेऽनया इति 'नाम्नि पुसि च' [५. ३. १२१.] इति णके जीविका जीवनोपायः, औपम्य इत्यत्र उपमीयतेऽनयेति , 'उपसर्गादातः' [ ५. ३. ११०.] इति अङि भिदादित्वाद् वा उपमा, तस्या भाव
औपम्य, उपमानोपमेयभावलक्षणसंबन्धः, समासकृत्तद्धितेषु संबन्धाभिधानमिति संबन्धे25 भावप्रत्ययोत्पादात् ॥ ३.१.१७॥
20