________________
४२८ ]
बृहद्वृत्तिलघुन्याससंवलिते
[ पा० १. सू० १४. ]
प्लुतिन्यायेन प्रादिरुपसर्ग इति वर्त्तते, न ऊर्यादिसूत्रेषु तेन ऊर्यादीनां न उपसर्गसंज्ञा, ततश्च ऊरी स्यादित्यादी 'प्रादुरुपसर्गा,' [२. ३. ५८ ] इति न षत्वम् । प्रावत्वेऽप्यनियम इति न केवलं समास एवेत्यर्थः । नन्वधिपूर्वः करोतिर्विनियोगे वर्त्तते, तत्कथं स्वामित्वे गम्यमान इत्युच्यते ? सत्यं विनियोगोऽपि चेत् स्वामित्वविषयो भवति ।। ३. १. १३ ।।
T
साक्षादादिश्च्व्यर्थं ॥। ३. १. १४ ॥
साक्षादादयः शब्दाश्च्व्यर्थे वर्तमानाः कृगो धातोः संबन्धिनो गतिसंज्ञा वा भवन्ति, तस्माच्च धातोः प्रागेव प्रयुज्यन्ते । साक्षात्कृत्य, साक्षात् कृत्वा, - असाक्षाद्भूतं साक्षाद्भूतं कृत्वेत्यर्थः, एवं - मिथ्याकृत्य, मिथ्या कृत्वा । च्व्यर्थ इति किम् ? यदा साक्षाद्भूतमेव किंचित् करोति, तदा साक्षात्कृत्वेत्येव भवति । च्व्यन्तानां तु 'ऊरी'-[ ३. १२.] प्रादिसूत्रेण नित्यमेव गतिसंज्ञा, लवणीकृत्य 10 उष्णीकृत्य । साक्षात्, मिथ्या, चिन्ता, भद्रा, रोचना, लोचना, श्रमा, आस्था, अग्धा, प्राजर्या, प्राजुरा, प्राजरुहा, बीजर्या बीजरुहा, संसर्पा । अर्थेअग्नौ, वशे, विरूपने, प्रकपने, विसहने, प्रसहने, प्रतपने । अर्थेप्रभृतयः सप्तम्येकवचनान्तप्रतिरूपकाः स्वभावात् निपाताद्वा । लवणम्, उष्णम्, शीतम्, उदकम्, आर्द्र म्, - लवणादीनामेतत्सूत्रविहितगति संज्ञासंनियोग एव 15 मान्तत्वं निपात्यते । प्रादुस् प्रविस्, नमस् इति साक्षादादिः ।। १४ ।
5
न्या० स० - साक्षादादि० । च्व्यन्तानां त्विति अर्थग्रहणात् व्यन्तानां विकल्पो न भवति, साक्षादिति सादृश्यप्रत्यक्षयोः । मिथ्या इति लोके, चिन्ता इति मानसे व्यापारे, भद्रादयः त्रयः प्रशंसायाम्, श्रमा इति सहार्थे, आस्था इति आदरप्रतिज्ञयो:, प्रग्धादयः षट् शोभार्थे, प्राजर्या इति रहः समवाय- संयोग- सामर्थ्येषु, बीजर्या बीजरुहा इति20 बीजप्रसवनेऽपि, संसर्पा इति प्रयोजनसंवरणयो:, श्रग्नौ इति तैक्ष्ण्ये, वशे इति अस्वातन्त्र्ये, विकपने प्रकपने इति उभौ वैरूप्ये, विकपने हिंसायां प्रकपने इत्यन्ये । विसहने प्रसहने इति उत्साहे सामर्थ्ये च, निपाताद्व ेति प्राकारान्तानां ध्वनीनां निपातनादाकारान्तत्वं, न तु प्राबन्तत्वम्, लवरणम् इति रुच्यर्थे, उष्णं इति अभिभवे, शीतं इति अनादरे, उदकं इति क्लेदे द्रवे च, आर्द्र इति सोदकाभिनवयोः । मान्तत्वं निपात्यत इति तेन लवणी- 25 कृत्येत्यादौ पूर्वसूत्रविहितगतिसंज्ञासन्नियोगे न भवति, तथा लवणं कृत्वा यवागूं भुङ्क्त े, शीतः कृतः, शीता कृता, शीताः कृताः इत्यादावभिधेयवल्लिङ्गो गतिसंज्ञाया प्रभावान्मान्ताभावः ।। ३. १. १४ ।