________________
[पा० १. सू० १२-१३.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ४२७
न्या० स०--मध्येपदे०। प्रनत्याधाने इति अत्र 'विभक्तिसमीप' [ ३. १. ३६.1 इत्यनेनार्थाभावेऽव्ययीभावः, तस्मिन्नपि 'सप्तम्या वा' [३. २. ४.] इति विकल्पादम् भावाभावः, तत्पुरुषो वा। सप्तम्येकवचनान्तप्रतिरूपकेत्यत्र-प्रतिगतं सादृश्येन प्रतिपन्न रूपं शब्दस्य तत्त्वं श्रुतिर्यस्तानि प्रतिरूपकारिण सप्तम्या एकवचनं तदन्तानां प्रतिरूपकारिण सप्तम्येकवचनान्तानि प्रतिरूपकाण्येषामिति वा विग्रहः। उपश्लेष इत्यत्र सन्निपत्ययोग: 5 सर्वप्रकारं साधारणमुच्यते, न तु संयोगमात्रं मध्ये इत्यादीनां अव्ययत्वात् पृषोदरादिनिपातनादेकारान्तत्वमिकारान्तत्वं च । निवचन इत्यत्र तु ब्रु गो वचेर्वा 'करणाऽऽधारे' | ५. ३. १२६. | इति अनटि वचनस्याभाव इति निशब्देनाऽव्ययीभावे पृषोदरादित्वादेकारे च निवचने इति । मध्ये कृत्वा वाचं तिष्ठतीति मध्ये इति औपचारिकोऽयमाधार इति वाचोऽनत्याधानमस्ति, वचनं हि शब्दप्रकाशनफलं न केनाऽपि सह समवैति ।।३. १. ११।। 10
उपाजेन्वाजे ॥ ३. १. १२ ॥
एते अव्यये सप्तम्येकवचनान्तप्रतिरूपके स्वभावाद्द बलस्य भग्नस्य वा बलाधाने वर्तमाने कृगो धातोः संबन्धिनी गतिसंज्ञे वा भवतः। तस्माच्च धातोः प्रागेव प्रयुज्यते । उपाजेकृत्य, उपाजे कृत्वा, अन्वाजेकृत्य, अन्वाजे कृत्वा,-दुर्बलस्य भग्नस्य वा बलाधानं कृत्वेत्यर्थः ।। १२ ।।
15 न्या० स०--उपाजे० । 'उप अनु' इत्येवं पूर्वादजतेर्घत्रि पृषोदरादित्वादेकारे उपाजे अन्वाजे ।भग्नस्य वा बलाधानमित्यत्र शकटस्य धुरोऽक्षस्य वा भग्नस्य यत्काष्ठमुपधीयते तदुपाजे अन्वाजे इति चोच्यते ।। ३. १. १२. ॥
स्वाम्येधिः ॥ ३. १. १३ ॥
अधीत्येतदव्ययं स्वामित्वे गम्यमाने कृगो धातोः संबन्धिगतिसंज्ञं वा20 भवति, तस्माच्च धातोः प्रागेव प्रयुज्यते । चैत्रं ग्रामेऽधिकृत्याधि कृत्वा वा गतः,-स्वामिनं कृत्वेत्यर्थः ।
स्वाम्य इति किम् ? चिन्तया ग्राममधिकृत्य, उद्दिश्येत्यर्थः । सार्थकत्वे उपसर्गसंज्ञकत्वात् नित्यं प्राप्ते पक्षे प्रतिषेधार्थं वचनम्, अनर्थकत्वे तु विधानार्थम् । प्रादिरुपसर्ग इति वर्तते, तेनोपसर्गसंज्ञापि विकल्प्यते इति25 कृत्वाधीति प्राक्त्वेऽप्यनियमः ॥ १३ ।।
न्या० स०--स्वाम्येऽधिः । प्रादिरुपसर्ग इति वर्तते इति । अत्र व सूत्र मण्डूक