________________
४२६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० ६-११.]
अच्छव्रज्य, अच्छोद्य। गत्यर्थवद इति किम् ? अच्छ कृत्वा गतः । अव्ययमित्येव ।-उदकमच्छं गत्वा ।। ८ ॥
न्या० स०-गत्यर्थवदो। अत्र समासान्तविधेरनित्यत्वादत एव निर्देशाद् वा 'चवर्गदषहः' [७. ३. ९८.] इति समासान्तो न भवति, अवतेरचि पृषोदरादित्वाद् वकारस्य छत्वे 'स्वरेभ्यः' [१.३.३०.] इति द्वित्वे अच्छ इति अभ्यादावर्थेऽव्ययं 5 निर्मलादावनव्ययम् ।। ३. १.८ ।।
तिरोऽन्तौँ ॥ ३. १. ६ ॥
तिरः शब्दोऽन्तधौं व्यवधाने वर्तमानो धातोः संबन्धिगतिसंज्ञो भवति तस्माच्च धातोः प्रागेव प्रयुज्यते। तिरोभूय, तिरोधाय। अन्तर्धाविति किम् । तिरो भूत्वा स्थितः,-तिर्यग्भूत्वेत्यर्थः ।। ६ ।।
10
कृगो नवा ॥ ३. १. १० ॥
तिरस् इत्यव्ययमन्तधौं वर्तमानं कृगो धातोः संबन्धिगतिसंज्ञं वा भवति तस्माच्च धातोः प्रागेव प्रयुज्यते । तिरस्कृत्य, तिरःकृत्य, तिरस्करोति, तिरः करोति, पक्षे-तिरःकृत्वा । अन्तर्धावित्येव । तिरः कृत्वा काष्ठं गतःतिर्यगित्यर्थः ।। १० ।।
15 मध्येपदेनिवचनेमनस्युरस्यनत्याध्याने ॥ ३. १. ११ ॥
एतानि सप्तम्येकवचनान्तप्रतिरूपकाण्यव्ययानि अनत्याधानेऽर्थे वर्तमानानि कृगो धातोः संबन्धीनि गतिसंज्ञानि भवन्ति वा, तस्माच्च धातो: प्रागेव प्रयुज्यन्ते, अत्याधानम् उपश्लेष आश्चर्य च, ततोऽन्यदनत्याधानम् । मध्येकृत्य, मध्ये कृत्वा, पदेकृत्य, पदे कृत्वा, निवचनेकृत्य, निवचने कृत्वा,-20 निवचने-वचनाभावः, वाचं नियम्येत्यर्थः, मनसि कृत्य, मनसि कृत्वा, उरसि कृत्य उरसि कृत्वा-उभयत्र निश्चित्येत्यर्थः । अनत्याधान इति किम् ? मध्ये कृत्वा धान्यराशि स्थिता हस्तिनः, पदे कृत्वा शिरः शेते, मनसि कृत्वा सुखं गतः, उरसि कृत्वा पाणि शेते। अव्ययमित्येव । मध्ये कृत्वा वाचं तिष्ठतीत्यादि ।। ११ ॥
25