________________
[पा० १. सू० ६-८.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ४२५
कणेमनस्तुप्तौ ॥ ३. १. ६ ॥
कणे मनस् इत्येते अव्यये तृप्तौ गम्यमानायां धातोः संबन्धिनी गतिसंज्ञे भवतः, तस्माच्च धातोः प्रागेव प्रयुज्यते । तृप्ति:-श्रद्धोच्छेदः । कणेहत्य पयः पिबति । मनोहत्य पयः पिबति, तावत् पिबति यावत्तृप्तः इत्यर्थः । तृप्ताविति किम् । तन्दुलावयवे कणे हत्वा गतः, मनो हत्वा गतः, 5 चेतो हत्वेत्यर्थः ।। ६ ॥
न्या० स०-करणेमनः कणतेरचि सप्तम्यां कणे इति सप्तमीप्रतिरूपकमव्ययमश्रद्धायां वर्तते। अव्यये इति अव्ययः सन् तृप्ति वक्ति, अत एव वृत्तौ अव्ययमिति संभवद्विशेषणं सूत्रेऽव्ययमित्यस्याकरणात् । कणे-मनस् इत्येते अव्यये इति स्वरूपनिरूपणमात्रमेवेति, तृप्ताविति व्यावृत्तेर्न द्वयङ्गवैकल्यम् ।। ३. १. ६ ॥
10
पुरोऽस्तमव्ययम् ॥३. १.७ ॥
पुरस् अस्तम् इत्येते अव्यये धातोः संबन्धिनी गतिसंज्ञे भवतः, तस्माच्च धातोः प्रागेव प्रयुज्येते, पूर्वपर्यायः-पुरःशब्दः, अनुपलब्ध्यर्थोऽस्तंशब्दः ।
पुरस्कृत्य गतः-पुरस्कृतम्, अस्तंगत्य पुनरुदेति सविता-अस्तंगतानि दुःखानि । अव्ययमिति किम् ? पुरः कृत्वा,-नगरीरित्यर्थः । अस्तं कृत्वा15 काण्डं गतः-क्षिप्तमित्यर्थः । सकारोऽप्यत्र न भवति ।। ७ ।।
न्या० स०-पुरोस्त०। पुरःकृत्वेत्यत्र पुर्शब्दः शसि सकारान्तोऽस्त्येवेति न द्वयङ्गवैकल्यम् । नन्वत्र गतिसंज्ञायामपि गतिसमासे सति स्यादिनिवृत्तिभावात् पुरसिति असन्तस्य संज्ञिरूपस्यासंभवात् संज्ञाया निवृत्तेस्तनिमित्तस्य समासादिकार्यस्यापि निवृत्तेः किमव्ययविशेषणेनेति ? नैवं, स्यादिनिवृत्ताप्येकदेशविकृतस्यानन्यत्वात् स एवायं संज्ञीति 20 संज्ञा न निवर्तते, यस्मिन् वा तद्रूपं न निवर्त्तते तत्प्रत्युदाहरणं यथा पुरः करोतीति नानार्थकमव्ययविशेषणमुत्तरार्थम् ।। ३. १.७ ॥
गत्यर्थवदोऽच्छः ॥ ३. १. ८ ॥
अच्छेत्यव्ययमभिशब्दार्थे दृढार्थे च वर्तते, तत् गत्यर्थानां वदश्च धातोः सम्बन्धिगतिसंज्ञं भवति, तेभ्यश्च धातुभ्यः प्रागेव प्रयुज्यते। अच्छगत्य,25