________________
४२४ ]
बृहदवृत्ति-लघुन्याससंवलिते
[पा० १. सू० ४-५.]
गृह्यते । कारिकाकृत्य,-स्थितिं यत्न क्रियां वा कृत्वेत्यर्थः । स्थित्यादाविति किम् ? कारिकां कृत्वा,-कौं कृत्वा इत्यर्थः ।। ३ ।।
न्या० स०--कारिका-कारिकाकृत्येति करणं कारिका भावे एकः, कारिका करणं पूर्व इति वाक्येऽपि अनेन गतिसंज्ञायां 'अव्ययस्य' [३. २. ७.] इति षष्ठ्या लुप्, एवं सर्वत्र । श्लोकवाचिनस्तु कारिकाशब्दस्य सत्यपि धातुसंबन्धसंभवे प्रयोगा- 5 दर्शनात् ग्रहणाभाव इति ।। ३. १. ३ ।।
भूषादरक्षेपेडलंसदसत् ॥ ३. १. ४ ॥
अलं, सत्, असत् इत्येते शब्दा यथासंख्यं भूषादरक्षेपेष्वर्थेषु वर्तमाना धातोः संबन्धिनो गतिसंज्ञा भवन्ति तस्माच्च धातोः प्रागेव प्रयुज्यन्ते । भूषामण्डनम्-अलंकृत्य, अलंकृतम्, प्रीत्या संभ्रम-आदरः-सत्कृत्य, सत्कृतम्,10 क्षेपोऽनादरः-असत्कृत्य, असत्कृतम् । भूषादिष्विति किम् ? अलं कृत्वा माकारीत्यर्थः, सत् कृत्वा, विद्यमानं कृत्वेत्यर्थः, असत्कृत्वा-अविद्यमानं कृत्वेत्यर्थः ।। ४ ।।
अग्रहानुपदेशेऽन्तरदः ॥ ३. १. ५ ॥
अन्तर् अदस् इत्येतौ शब्दौ यथासंख्यमग्रहेऽनुपदेशे चार्थे गम्यमाने15 धातोः संबन्धिनौ गतिसंज्ञौ भवतः, तस्माच्च धातोः प्रागेव प्रयुज्यते ।
अग्रहोऽस्वीकारः । अन्तर्हत्य, मध्ये हिंसित्वा शत्रून् गत इत्यर्थः । स्वयं परामर्शोऽनुपदेशो विशेषानाख्यानं वा। अदःकृत्यैतत्करिष्यतीति चिन्तयति । अग्रहानुपदेशे इति किम् ? अन्तर्हत्वा मूषिकां श्येनो गतःपरिगृह्य गत इत्यर्थः । अदः कृत्वा गत इति परस्य कथयति 120 अदस्शब्दस्त्यदादौ । अव्ययमिति केचित् ॥ ५ ॥
न्या० स०-अग्रहानु०। मध्ये हिंसित्वेति-अन्तःशब्दो मध्येऽधिकरणभूते वर्तते परिग्रहे च, तत्र परिग्रहे प्रतिषेधादितरत्र गतिसंज्ञा विज्ञायते इति दर्शयति, विशेषानाख्याने चिन्तयतीत्यस्य स्थाने कथयतीति प्रयोगो ज्ञेयः ।। ३.१.५ ।।