________________
[पा० १. सू० ३.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ४२३
पूर्वपदान्तलोपे पाधातोर्लेखने तु आकारस्य ईकारे वा पाम्पी ।
तालीत्यत्र-केवलादाङ पूर्वाच्च तालयतेः 'तृ स्तृ तन्द्रितन्त्री' ७११ (उणादि)इति बहुवचनादीकारे ताली पाताली च । धूशीत्यत्र धूनोतेः क्विपि धूस्तत्र शेते इति क्विपि धूशी, कान्तिस्तेजस उत्कर्षतः, काङक्षा अभिलाषः । शकलेत्यत्र शशि प्लुतिगतावित्यचि शश:, खलतेरचि खलः शशाः खला अस्या पृषोदरादिदर्शनादत एव निपातनादेकस्य शस्य 5 लोपे खस्य च कत्वे आपि शकला। संशकलेति हत्वा हत्वा शशाः संचीयन्तेऽस्यामिति हिंसोच्यते, संगता शकला संशकला, ध्वस्ता शकला भृशं शकला पृषोदरादित्वात् पूर्वपदयोलभावे भ्रभावे च ध्वंशकला भ्रंशकला । प्राङ पूर्वाल्लम्बेः 'तृ स्तृ तन्त्रि' ७११ (उणादि) इति बहुवचनादीकारे आलम्बी। 'केवृङ सेचने' अचि केवः, तत्पूर्वात् 'शोंच तक्षणे' इत्यतो बाहुलकात् कितीकारे पृषोदरादित्वात् पूर्वपदान्तस्याकारे केशावी। शेते:10 'शीङाप:' ५०६ (उणादि) इति वः तदालीयते इति क्विपि शेवाली । पारयतीति क्विपि पाः, पारं ददाति विचि पार्दाः, तं लीयते इति पार्दाली। मस्मसेत्यत्र 'मसैच परिणामे' क्विपि अचि च मसो मसा इति षष्ठीतत्पुरुषे मस्मसा, पूर्वस्याप्यचि मसमसा। चूर्णसंवरणयोरपीति । अत्रावयविनः सूक्ष्मावयविभागश्चूर्णम्, सर्वत्र अपिशब्दो हिंसासंबन्धद्योतनार्थः । 'गुत् पुरीषोत्सर्गे' ततो विचि कुटादित्वात् गुणाभावे गुवं लुनातीति 15 क्विपि तं गुध्नातीति 'मूलविभुजादयः' [५. १. १४४.] (इति) के निपातनादूकारस्य ह्रस्वत्वे आपि गुलुगुधा फलनिष्पत्तावित्यतो बाहुलकादूकारे ईकारे च फलू फली । विपूर्वादाङ पूर्वाच्च क्रीणातेः क्विपि ऋपिडादित्वाल्लत्वे विक्ली आक्ली।।
क्रियासंपत्तिकर्मसिद्ध्यकण्टकेष्वपीत्यत्र-क्रियासंपादनं पाठादिक्रियायाः फलप्राप्तिः, कण्टकरहितो देशादिः । विभागयोरपीत्यत्र विभागो विभक्तप्रत्ययनिमित्तं गुणविशेषः ।20 औषडित्यत्र श्रूयते, वाति, उच्यते च बाहुलकात् क्विबन्ताः साधवः । देवतासंप्रदानेत्यत्र देवतासंप्रदानं देवताभ्यः संप्रदीयमानं हविर्द्रव्यं दानमात्र दानसामान्यं स्वधा पितृभ्य इति श्रुतेः । कथं स्वधा देवतासंप्रदाने वर्तते ? उच्यते, पितृ णामपि देवतारूपत्वाददोषः । स्वधा तृप्तिप्रीतीत्यत्र तृप्तिः श्रद्धोच्छेदः, प्रीतिरानन्दः, प्रत्यभिवादनं प्रतिनमस्क्रिया । श्रद्धाने इत्यत्र धर्मकर्मविषयोऽभिलाषः श्रद्धानं, केवालीत्यत्र 'केवृङ सेवने' इत्यचि25 केवलमालीयते क्विपि केवाली। योगे गतिसंज्ञेति विडाचोः कृभ्वस्तिभिरेव योगे भावात् तदेकवाक्यतया चैषां निर्देशात्तद्योग एव गतित्वमित्यर्थः । श्रतश्च दधातिकरोतिभ्यामिति । ‘मृगयेच्छया' [५. ३. १०१] इत्यत्र श्रद्धेतिनिर्देशात् तथैव प्रयोगदर्शनाच्छास्त्रस्यानुवादकत्वादिति शेषः ।। ३. १. २ ।। कारिका स्थित्यादौ ॥३. १. ३ ॥
30 कारिकाशब्दः स्थित्यादावर्थे धातोः संबन्धी गतिसंज्ञो भवति । तस्माच्च धातोः प्रागेव प्रयुज्यते । स्थितिमर्यादा वृत्तिर्वा, आदिशब्दाद्यत्नधात्वर्थनिर्देशौ