________________
[ पा० १. सू० १.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ४१६
गतार्थग्रहणं किम् ? - अध्यागच्छति, पर्यागच्छति - अत्रोपरिभावस्य सर्वतोभावस्य च प्रकरणादेरप्रतीतस्य द्योतने उपसर्गसंज्ञास्त्येवेति प्राक्त्वनियमः । अतिक्रमार्थोऽतिः-यदर्थं क्रिया तस्मिन् निष्पन्ने क्रियाप्रवृत्तिरतिक्रमः - प्रतिसिक्तं भवता, प्रतिस्तुतम् भवता - अतिक्रमेण सेकः स्तुतिश्च कृतेत्यर्थः, -अत्र षत्वं न भवति । प्रतिसिक्त्वा, अतिस्तुत्वा,- - अत्र समासाभावाद्यबादेशो न भवति । 5 अतिक्रमग्रहणं किम् ? प्रतिशय्य । प्रादिग्रहरणं किम् ? - पुनर्नमति, साधु सिञ्चति ।
“धात्वर्थं बाधते कश्चित् कश्चित्तमनुवर्तते । तमेव विशिष्टयन्योऽनर्थकोऽन्यः प्रयुज्यते " ।। १ ।।
बाधते यथा-प्रतिष्ठते, प्रस्मरति, प्रवसति, प्रलीयते, प्रतीक्षते, 10 प्रतिपालयति, तमनुवर्तते यथा - प्रधीते, अध्येति, प्राचामति, प्राचष्टे, अनुरुध्यते, प्रलोकयति, तमेव विशिनष्टि यथा - प्रपचति, प्रकरोति, प्राणिति, प्राश्नाति निरीक्षते, निष्टपति, अनर्थको यथा- प्रलम्बते, प्रार्थयते, विजयते, विजानाति, निमीलति, निखञ्जति, निरजति, एषां चाऽऽपञ्चभ्यः प्रायेण प्रयोगो भवति, - आहरति, व्याहरति, अभिव्याहरति समभिव्याहरति, 15 प्रसमभिव्याहरतीति ।
अथ किं धातुः पूर्वं क्रियाविशेषकेणोपसर्गेण युज्यते उत साधनाभिधायिना प्रत्ययेनेति ? - साधनेनेति केचित् । साधनं हि क्रियां निर्वर्तयति तामुपसर्गो विशिनष्टि, अभिनिर्वृत्तस्य चोपसर्गेण विशेष: शक्यो वक्तुं नानभिनिर्वृत्तस्य, तदयुक्तम्, यो हि धातूपसर्गयो रभिसंबन्धस्त 20 मभ्यन्तरीकृत्य धातुः साधनेन युज्यते । यस्माद्विशिष्टैव क्रिया साधनेन साध्यते, न तु साधनाल्लब्धस्वरूपान्यतो विशेषं लभते, तस्मात्पूर्वमुपसर्गेणेति युक्तम् । तथा च समस्करोत्संचस्कारेत्यत्रान्तरङ्गत्वात् स्सटि कृते प्रत्ययनिमित्ते प्रडागमद्विर्वचने भवतः, अतश्च वम् । पूर्वं हि धातोः साधनेन संबन्धे आस्यते गुरुणेत्यकर्मकः, उपास्यते गुरुरिति सकर्मको धातुः केन स्यात् ? न25