________________
तृतीयोऽध्यायः
अथ प्रथमः पादः
धातोः पूजार्थस्वतिगतार्थाधिपर्यतिक्रमार्थातिवजी प्रादिरूपसर्गः प्राक्च ॥ ३.१.१ ॥
त्वषत्वनागमाः सिद्धाः ।
धातोः संबन्धी तदर्थद्योती चाद्यन्तर्गतः प्रादिः शब्दगरण उपसर्गसंज्ञो 5 भवति, तस्माच्च धातोः प्राक् प्रयुज्यते न परो न व्यवहितः पूजार्थों स्वती गतार्थावधिपरी अतिक्रमार्थमति च वर्जयित्वा । प्रणयति, परिणयति, अभिषिञ्चति, निषिञ्चति, प्रलम्भः, उपलम्भः । एषूपसर्गसंज्ञायां धातोरिति किम् ? वृक्षंवृक्षमभिसिञ्चति । प्रगता नायका यस्मात्स प्रनायको देशः इत्यत्र तु सत्यपि धातुसंबन्धे येनैव 10 धातुना संबद्धाः प्रादयस्तं प्रत्येवोपसर्गसंज्ञा इति गमिसंबन्धेऽपि नयति प्रत्यनुपसर्गत्वात् णत्वं न भवति । एवं प्रछेको देश इत्यत्रारादेशो न भवति । पूजार्थस्वत्यादिवर्जनं किम् ? पूजार्थों स्वती - सुसिक्तम् भवता, सुस्तुतं भवता, अतिसिक्तं भवता - अतिस्तुतं भवता, धात्वर्थः प्रशस्यते, प्रत्रोपसर्गसंज्ञाया अभावात् षत्वं न भवति । पूजाग्रहणं किम् ? - सुषिक्तं नाम किं तवात्र ? - 15 धात्वर्थोऽत्र कुत्स्यते । गतार्थावधिपरी - अध्यागच्छत्यागत्यधि, पर्यागच्छति आगच्छति परि । उपरिभावः सर्वतोभावश्वान्यतः प्रकरणादेः प्रतीयत इति गतार्थत्वम्, अत्र प्राक्त्वनियमाभावः । अध्यागमनं प्रयोजनमस्याध्यागमनिकः, पर्यागमनिकः - श्रत्र 'प्रयोजनम्' [६. ४. ११७.] इतीकरण अधिपरिशब्दयोरादेरकारस्य वृद्धिर्न भवति । उपसर्गत्वाभावेन गतिसंज्ञाया प्रभावे 20 समासाभावेन पृथक्पदत्वात् । पर्यानीतम् - श्रत्रानुपसर्गत्वाण्णो न भवति ।