________________
[पा० ४. सू० ११३.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ ४१७
स्येत्त्वं निपात्यते । नरान् कायतीति-नरिका "प्रातो डोह वा-वा-मः" [५. १. ७६.] इति डः। ममेयं-मामिका, अनि ममकादेशः, "केवलमामक०" [२. ४. २६.] इत्यादिना संज्ञायां ङीप्रत्ययस्य नियमादाप्, ककारस्याप्रत्ययसम्बन्धित्वात् पूर्वेणाप्राप्ते वचनम् ।। ११२ ।।। तारका-वर्णका-SSटका ज्योतिस्तान्तपितृदेवत्ये :
॥२. ४. ११३ ॥ तारकादयः शब्दा यथासंख्यं ज्योतिरादिष्वर्थेषु इकारादेशरहिता निपात्यन्ते । तरतर्णके-तारका-ज्योतिः, तच्च नक्षत्रं कनीनिका च, नक्षत्रमेवेत्यन्ये, अन्यत्र-तारिका। वर्णयतीति एके-वर्णका-तान्तवः प्रावरणविशेषः, अन्यत्र वणिका-भागुरी लोकायतस्य । अश्नोतेरौणादिके10 तककि-अष्टका-पितृदेवत्यं कर्म, अन्यत्राष्टौ द्रोणाः परिमाणस्या इति केअष्टिका खारी। पितृदेवतार्थ कर्मेति "देवतान्तात् तदर्थे" [७. १. २२.] इति ये-पितृदेवत्यमिति सिद्धम् ।। ११३ ।। इत्याचार्यश्रीहेमचन्द्रविरचितायां श्रीसिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृहद्वृत्तौ [तत्त्वप्रकाशिकायां] द्वितीयस्याध्यायस्य 15
चतुर्थः पादः समाप्तः [२. ४.] श्रीमूलराजक्षितिपस्य बाहुर्बिभर्ति पूर्वाचलशृङ्गशोभाम् । संकोचयन् वैरिमुखाम्बुजानि यस्मिन्नयं स्फूर्जति चन्द्रहासः ।। ८ ।।
समाप्तोऽयं द्वितीयोऽध्यायः ।। न्या० स०--तारका व०। णिजन्ताद् वर्ण्यत इति संज्ञायां एके-वर्णका,20 वर्णयतीति तु चौरादिकप्रतिपत्त्यर्थ तिवा निर्देशो, न तु णकारम्भकः, अथवा वर्णयतिआधारविशेषगतमाधेयगुणं वादयतीति ।। २. ४. ११३ ।।।
इत्याचार्य० द्वितीयस्याध्यायस्य चतुर्थः पादः संपूर्णः ॥
॥ समाप्तोऽयं द्वितीयोऽध्यायः॥