________________
४१४ ]
.
बृहवृत्ति-लघुन्याससंवलिते
[पा० ४. सू० १०६.]
यिका, क्षत्रियका; आर्यिका, आर्यका । ककार-चटकिका, चटकका; मूषकिका, । मूषकका; एलकिका, एलकका। धातुत्यवर्जनं किम् ? सुनयिका, सुशयिका; अशोकिका, सुपाकिका; दाक्षिणात्यिका, पाश्चात्यिका, इहत्यिका, अमात्यिका। आप इत्येव-कुत्सिता स्वा-आत्मा आत्मीया वा सर्वादित्वादकि-स्विका। सांकाश्ये भवा योपान्त्यलक्षणेऽकनि-सांकाश्यिका, एवं-काम्पील्यिका, हृदिकं 5 भजति हार्दिकिका; अत्र “गोत्रक्षत्रियेभ्योऽकञ् प्रायः" [६. ३. २०८.] इत्यकञ्, एवं-श्वाफल्किका, सर्वत्रोत्तरेण नित्यमिकारः । कथं बह वपत्यिका? बह पत्यका ? ; नात्र त्यप्रत्ययः, प्रत्यया-प्रत्यययोश्च प्रत्ययस्यैव ग्रहणम् । अथ शुष्किकेत्यत्र कथं न विकल्प: ? क्तादेशस्य कस्यासिद्धत्वात् ।। १०८ ।।
न्या० स०--स्वज्ञाज। धातुश्च त्यश्च-धातुत्यौ, न धातुत्यौ-अधातुत्यौ, यश्च10 कश्च-यकम्, अधातुत्ययोर्यकम्-अधातुत्ययकम्, स्वश्च ज्ञश्च अजश्च भस्त्रश्च अधातुत्ययकं च-स्वज्ञाजभस्त्राधातुत्ययकं, तस्मात् । अत्र सूत्रेऽपुस इति नानुवर्ततेऽसंभवात्, आरम्भसामर्थ्याच्च । [कुत्सिता] स्वा ज्ञातिः-स्विका इति-यद्यपि स्वशब्द: "स्वो ज्ञातावात्मनि क्लीबे, त्रिष्वात्मीये धनेऽस्त्रियाम्" इति पठ्यते तथापि कुत्सिताद्यर्थविषये ज्ञातावपि स्त्रीत्वमत एव पाठात् भवति ह्य पाधिभेदाद् ह्रस्वे कृते लिङ्गयोगस्तदन्य-15 लिङ्गत्वं च, यथा पचतिरूपमित्यलिङ्गस्यापि नपुंसकलिङ्गत्वम्, कुटीरमिति स्त्रीलिङ्गस्यापि नपुसकलिङ्गत्वम् । विचित्रा हि शब्दशक्तयः; यद्वा ज्ञातिरत्र स्त्रीरूपा विवक्षिता, तेन योनिमन्नामत्वात् स्वशब्दस्य स्त्रीत्वम् । न विद्यते स्वा यस्या इति कृते कपि-अस्विका, अस्वकेति रूपे, कपि निमित्तभूते विकल्पपक्षे “अस्यायत्तत्०" [ २. ४. १११. ] इति न, विकल्पसामर्थ्यात्, कचि तु "नवापः” [ २. ४. १०६. ] इति ह्रस्वे20 कृते "अस्यायत्तत्०" [२. ४. १११. ] भवत्येव, न च सूत्रविकल्पः प्रवर्त्तते, सूत्रं विनापि अस्विका अस्वकेति सिध्यतीति अस्विकेति रूपमेकरूपेणेव गतार्थमिति । दाक्षिणात्यिकेति-दक्षिणस्यां भवा “दक्षिणापश्चात्" [ ६. ३. १३. ] इति त्यण, अत्र "सर्वादयोऽस्यादौ" [३. २.६१. 1 इति प्रवद्भावो न भवति. "दक्षिणापश्चात." [ ३. २. ६१. ] इत्यत्र आकारनिर्देशात्; यद्वा "कौण्डिन्यागस्त्ययोः०" [६. १.25 १२७. ] इति ज्ञापकात् । स्वा प्रात्मा प्रात्मीया वेति-स्त्रीसम्बन्ध्यत्रात्मा विवक्षितः, तस्य च योनिमता स्त्रीशरीरेणाभेदोपचाराद् योनिमन्नामत्वात् 'स्वा' इत्यत्र स्त्रीत्वम्, बाहुलकाद् वा स्त्रीत्वम् । श्वाफल्किकेति-श्वानं फालयति-श्वफल्कः, अन्धकविशेषः ॥ २.४.१०८ ॥ द्वयेष-सूत-पुत्र-वन्दारकस्य ॥२. ४. १०६ ॥
30 आप इति निवृत्तं पृथग् योगात्, एषामन्तस्यानित्प्रत्ययावयवे ककारे