________________
[पा० ४. सू० ११०.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ४१५
आप्परे परत इकारादेशो वा भवति । द्विके, द्वके; एषिका, एषका; केवलयोरेवानयोर्विकल्पेनेकारः । यदा तु 'न द्व, न एषा, न के, न एषका' इत्यादिविग्रहे कृते विभक्त लुपि सत्यां पुनः समासाद् विभक्तौ तामाश्रित्य त्यदाद्यत्वं तत प्राप्, स च स्थानिवद्भावेन विग्रहकालभाविन्या विभक्त : परो न तु कात्, तदा 'अनेषका, अद्वके' इत्यत्रकारो न भवति । अस्विकेत्यादौ तु 5 न विभक्त: पर प्राप्, किन्तु कादेव । सूतिका, सूतका; पुत्रिका, पुत्रका; वृन्दारिका, वृन्दारका । द्विशब्दसाहचर्यादेषेति सर्वादेः कृतविकारस्यैतदो निर्देशः, तेनेषेर्णकादिप्रत्ययान्तस्याविकृतस्यैतच्छब्दस्य च न भवति-इच्छतीति-एषिका, एता एव-एतिकाः ।। १०६ ।।
न्या० स०-दूषसूत । यदा तु न दे न एषेति एषद्विशब्दौ नपूर्वावित्व-10 विकल्पं न प्रयोजयतः, तत्रापि कृते नसमासेऽनसमासे वाऽगिति द्वयी गतिः, उभयोरपि च पक्षयोविभक्त : पर आबिति, यतः अन्तरङ्गानपि विधीन् बहिरङ्गापि लुप् बाधते इति समासार्थाया विभक्त स्त्यदाद्यत्वात् पूर्व लुपा भाव्यं, प्रत्ययलक्षणं च नास्तीति समुदायाद् या विभक्तिस्तामाश्रित्य त्यदाद्यत्वे सत्यापा भाव्यम्, स च विग्रहकालभाविन्या विभक्त्या व्यवधीयते । तहि द्विके इति मूलप्रयोगेऽपि कुत्सिते द्वे इति15 तद्धितवृत्ती "त्यादिसर्वादेः" [ ७. ३. २६. ] इत्यकि औकारस्य लोपे तद्धितान्तात् प्रौकारे तदाश्रये त्यदाद्यत्वे आपि च तद्धितवृत्तिनिमित्तस्य औकारस्य स्थानिवद्भावाद् न प्राप्नोति, नैवम्-उभयोरपि औकारयोरेकपदभक्तत्वेन व्यवधानं न भवति, 'अद्वके' इत्यत्र तु समासभक्तस्य औकारस्य प्रथमेन द्विशब्दभक्त न औकारेण व्यवधानं भवत्येव । सूतिकेति-सुपूर्वाद् वयते: क्तः, सूते स्मेति वा क्तः, तत पाबन्तात् कुत्सितादौ कप् ।20 पुत्रिकेति-पुत्रशब्दात् कुत्सितादौ कपि आबादौ च, कृत्रिमः पुत्र इति वा "तनुपुत्रा-ऽणुबृहतो." [७. ३. २३.] इति कः। वृन्दारिकेति-प्रशस्तं वृन्दमस्या अस्तीति वृन्दारकः, ततो “जातेरयान्त." [ २. ४. ५४. ] इति बाधायै “अजादे:०" [२. ४. १६. ] इत्याप् ।। २. ४. १०६ ॥ वौ वर्तिका ॥ २. ४. ११० ॥
25 वौ-शकुनावभिधेये वर्तिकेतीत्त्वं वा निपात्यते । वर्तते इति एकेवर्तिका, वर्तका-शकुनिः । वाविति किम् ? वर्तिका-भागुरिर्लोकायतस्य - व्याख्यात्रीत्यर्थः ।। ११० ॥
न्या० स०-वो वर्तिका। वर्तिका भागुरिरिति-वर्तयतीति एके "मस्या