________________
४१२ ]
बृहवृत्तिलघुन्याससंवलिते
पा० ४. सू० १०६-१०७.]
कचि प्राप्तिरेव नास्तीत्याह-न कचोति प्रतिषेध इति-नषादकषुकः, शाबरजं० । ॥ २. ४. १०५ ।।
नवापः ॥ २. ४. १०६ ॥
आपः कचि परे ह्रस्वो वा भवति, पूर्वेण प्रतिषेधे प्राप्ते पक्षे ह्रस्वार्थमिदम् । प्रियखट्वकः, प्रियखट्वाकः; बहुमालकः, 5 बहुमालाकः ।। १०६ ।।
इच्चापुसोऽनित्क्याप्परे ॥ २. ४. १०७ ॥
आबेव परो यस्माद् न विभक्तिः स आप्परः, अपुंलिङ्गार्थाच्छब्दाद् विहितस्यापः स्थाने इकारो ह्रस्वश्च वा भवतः, अनितोऽनकारानुबन्धस्य प्रत्ययस्यावयवभूते कि--ककारे आप्परे परतः । अल्पा खट्वा--खट्विका,10 खट्वका, खट्वाका; परमविका, परमखट्वका, परमखट्वाका; प्रिया खट्वा यस्याः सा-प्रियट्विका, प्रियखट्वका, प्रियखट्वाका। चकारो ह्रस्वानुकर्षणार्थः, तेनोभयविकल्पे त्रैरूप्यं सिद्धम् । अपुंस इति किम् ? सर्विका। न विद्यते खट्वा अस्या इति “गोश्चान्ते." [२. ४. ६६.] इत्यादिना ह्रस्वत्वे स्त्रीपुंससाधारणात् पुनरापि--अखट्वा, सैवाल्पा--15 अखटिवका, तथा खट्वामतिक्रान्ता--अतिखट्वा, सैवाल्पा--अतिखट्विका, अत्रापुंस्काद् विहित प्राप् न भवतीति त्रैरूप्यं न भवति । "ड्यादीदूतः के" [२. ४. १०४.] इत्यनेन तु ह्रस्वे कृते "अस्या०" [२. ४. ११.] इत्यादिनेत्वमेव भवति, कश्चित् त्वपुंस्काद् विहित आबस्तीति भवत्येव रूपत्रयम्--न विद्यते खट्वा यस्याः सा-अखट्विका, अखट्वका, अखट्वाका। अनिदिति20 किम् ? अनुकम्पिता दुर्गादेवीति कप्नि-दुर्गका, “ड्यादीदूतः के" [२. ४. १०४.] इत्यनेन ह्रस्व एव भवति । कीति किम् ? खट्वाता, मालाता। आप्पर इति किम् ? प्रियरखट्वाकः पुरुषः । आबेव परो यस्मादिति बहुव्रीहिः किम् ? प्रियखट्वाकमतिक्रान्ताऽतिप्रियखट्वाका, अत्र हि प्रथम द्वितीया परा पश्चादाबिति । आप इत्येव-मातृका ।। १०७ ॥ 25.