________________
[ पा० ४. सू० १०४ - १०५.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ४११
न्या०
-- गोण्या० 1 विनैव तद्धितेन गोणीशब्दो गोणीप्रमितेऽर्थे व्रीह्यादावुपचाराद् वर्तते, यथा प्रस्थप्रमिते प्रस्थ इति, तस्य चायं ह्रस्व इति सूत्रारम्भ इत्यर्थः । सत्यामपि वा तद्धितलुचि 'गोणीसूच्यो:' इति प्रतिषेधे “गोश्चान्ते ० " [ २. ४. ε६. ] इति च समासे ह्रस्वस्य विज्ञानादिह नास्तीति तदर्थमिदमारभ्यते
।। २. ४. १०३ ।।
स०
5
ड्यादीदूतः के ॥ २. ४. १०४ ॥
ङीप्रत्ययस्याऽऽकारेकारोकाराणां च के प्रत्यये हस्वो भवति । कुमारिका, पविका, सोमपकः, कीलालपकः, सोमपिका, कीलालपिका, लक्ष्मिका, तन्त्रिका, वधुका, यवागुका, ब्रह्मबन्धुका | ङीग्रहणं पुंवद्भावबाधनार्थम् । काकः पाक इत्यादौ तु प्रत्यया ऽप्रत्यययोः प्रत्ययस्यैव 10 ग्रहणम् इति न्यायान्न भवति ।। १०४ ॥
न्या० स० -- ङयादीदू० । सोमपिकेत्यादौ ह्रस्वस्य दारदिकेत्यादौ च पिति पुंवद्भावस्य सावकाशत्वात् पट्विकेत्यादौ चोभयप्राप्तौ परत्वात् पुंवद्भावे पविकेत्यादि न सिध्यतीत्याह - ङीग्रहणमित्यादि - ङीग्रहणमनवकाशत्वात् पुंवद्भावं बाधत इत्यर्थः । प्रत्ययाप्रत्ययोरिति न्यायान भवतीति - ककतेरचि पृषोदराद्यात्वं - काकः, पचनं - पाक:, 15 घञि " तेऽनिट: ० " [ ४. १. १११. ] इति कत्वम् । अथ कायतेः पिबतेच “भीण्शलि - वलि० " [ उरणा० २१. ] इति यदा कस्तदा ह्रस्वः कस्मान्न भवति ? उच्यतेउणादीनामव्युत्पन्नत्वात्, व्युत्पत्तिपक्षे तु बहुलवचनान्न भवति ॥ २.४. १०४ ।।
न कचि ॥। २. ४. १०५ ।।
,20
ङादीदूतः कचि प्रत्यये परे ह्रस्वो न भवति । बहुकुमारीकः, 2 बहुकीलालपाकः, बहुलक्ष्मीकः, बहुब्रह्मबन्धूकः; खार्या क्रीतं -- खारीकम्, एवं -- काकणीकम्, “खारीकाकणीभ्यः कच्" [६. ४. १४६ . ] इति कच् । "न कचि” [ २. ४. १०५. ] इति प्रतिषेधः पूर्वसूत्रे निरनुबन्धग्रहणे न सानुबन्धस्य इति न्यायस्याभावज्ञापनार्थः तेन - निषादक जातो-नैषादकर्षुकः, एवं -- शाबरजम्बुक इत्यादाविकरिण ह्रस्वः सिद्धः ।। १०५ ।। 25
न्या० स० न कचि । बहुलक्ष्मीक इत्यत्र एकत्वे "पुमनडुन्नौ० ” [ ७.३. १७३. ] बहुत्वे तु 'शेषाद् वा' [ ७. ३. १७५. ] कच् । पूर्वसूत्रे क इति निरनुबन्धे