________________
४१० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ४. सू० १०१-१०३.]
क्रियते, तत्रैवं विज्ञास्यते-त्वप्रत्यये नाम्नि च ह्रस्वो भवतीति; नैवम्-तत्र ह्य त्तरपद इत्यस्ति, ततश्च त्वप्रत्यये नाम्नि चोत्तरपदे ह्रस्वो भवतीति विज्ञानाद् रोहिरिणत्वफलमजत्वफलमित्यत्र स्यात्, इह न स्यात्-रोहिणित्वमिति पृथुगुच्यते ।। २. ४. १०० ।।
भूवोच्च ळुस-टयोः ॥ २. ४. १०१॥
भ्र शब्दस्य कुंस-कुटयोरुत्तरपदयोः परयोह्र स्वोऽकारश्च भवति । 5 भ्रकुसः, भ्रकुंसः, भ्र कुटि:, भ्रकुटिः, भ्र कुंस-भ्रू कुटिशब्दावपीच्छन्त्यन्ये ॥ १०१ ॥
न्या० स०-भ्र वोऽच्च०। भ्र वौ कुसयति "कर्मणोऽण्" [५. १. ७२. ] इति, भ्र वः कुटि: कौटिल्यं वा । भृकुस-भृकुटिशब्दावपि नारायणकण्ठी मन्यते ॥ २. ४. १०१॥
10
मालेषीकेष्टकस्यान्तेऽपि भारि-तूल-चिते
॥२. ४. १०२॥ माला-इषीका-इष्टकाशब्दानां केवलानामन्ते वर्तमानानां च भारिन्तूल-चितशब्देषूत्तरपदेषु परेषु ह्रस्वो भवति यथासंख्यम् । मालां बिभर्तीत्येवंशीलः-मालभारी, उत्पलमालभारी; मालभारिणी, उत्पलमालभारिणी; 15 इषीकतूलम्, मुजेषीकतूलम् ; इष्टकचितम्, पक्वेष्टकचितम् । इदमेवान्तःग्रहणं ज्ञापकम् ॐग्रहणवता नाम्ना न तदन्तविधिः इति, तेनदिग्धपादोपहतः सौत्रनाडिरित्यादौ पदादेशा-ऽऽयनण प्रत्ययादयो न भवन्ति ।। १०२ ॥
न्या० स०-मालेषी० । मालादिभिः प्रकृतस्य नाम्नो विशेषणात् तदन्तलाभात्20 केवलस्य व्यपदेशिवद्भावाद् ह्रस्वसिद्धौ किमर्थमन्तग्रहणमित्याशङ्कायामाह-इदमेवेति ।। २.४.१०२ ।।
गोण्या मेये ॥२. ४. १०३ ।।
गोणीशब्दस्य मानवाचिन उपचारान्मये वर्तमानस्य ह्रस्वो भवति । गोण्या मितो गोणिः । मेय इति किम् ? गोणी ॥ १०३ ।। .