________________
[पा० ४. सू० ६६-१००.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ४०६
"दीर्घमवोऽन्त्यम्" [ ४. १. १०३. ] इन्द्रह्वः पुत्रः । शकहूपुत्र इति-शकस्यापत्यानि "पुरुमगध:०" [ ६. १. ११६. ] इत्यण् “शकादिभ्यो." [ ६. १. १२०. ] लुप् शकान् ह्रयति, शेषं पूर्ववत् । वृषलीभूतमिति-अवृषलं वृषलं भूतं, मतान्तरेणेदं वाक्यम्, अन्यथा अत्रिलिङ्गत्वान्न प्राप्नोति, "अत्रिलिङ्गाऽन्या" इति च जातिलक्षणे लिखितत्वादस्यात्रिलिङ्गत्वम् ।। २. ४. ६८ ।।
व्यापो बहलं नाम्नि ॥ २. ४. ६६ ॥
यन्तस्य आबन्तस्य च नाम्न उत्तरपदे परतो नाम्नि-संज्ञायां विषये ह्रस्वो भवति बहुलम् । भरणिगुप्तः, रोहिणिमित्रः, महित्रातः, महिदत्तः, महिगुप्तः, शिलवहम्, शिलप्रस्थम् ; क्वचिद् विकल्प:--रेवतिमित्रः, रेवतीमित्रः; पृथिविदत्तः, पृथिवीदत्तः; पृथिविगुप्तः, पृथिवीगुप्तः; गङ्गमहः,10 गङ्गामहः; गङ्गदेवी, गङ्गादेवी; शिशपस्थलम्, शिंशपास्थलम् । क्वचिन्न भवति-फल्गुनीमित्रः, नान्दीमुखम्, नान्दीतूर्यम्, नान्दीकरः, नान्दीघोषः, महीफलम्, महीकरः, महीविशालः, लोमकागृहम्, लोमकाखण्डः, लेपिकागृहम्, लेपिकाखण्डः, गङ्गाद्वारम् । ङ्याप इति किम् ? श्रीपुरम्, विष्टापुरम् । उत्तरपद इत्येव--भरण्याः, रोहिण्याः । नाम्नीति किम् ? नदीस्रोतः,15 खट्वापादः ।। ६६ ।।
न्या० स०--ड्यापो०। ङीसाहचर्यादापः प्रत्ययस्य ग्रहणं, न तु क्विबन्तस्याप्नोतेरित्याह-आबन्तस्य चेति । नन्दे: “पदिपठि०" [ उणा० ६०७. ] इति इः, बाहुलकाद् दीर्घ-नान्दी, तस्या मुखम् । विष्टापुरमिति-विशं तायते क्विपि “य्वोः प्वयव्यखने" [ ४. ४. १२१. ] लुप्, पृषोदरादित्वात् डत्वाभावेविष्टा, विष्ट: पू:,20 "ऋक्तः०" [ ७. ३. ७६. ] अत् समासान्तः। रोहिणीति-"रेवत-रोहिणाद् भे" [ २. ४. २६. ] ङी:, गवि वाच्यायां तु “जातेरयान्त०" [२. ४. ५४. ] इति वा ङी: । लोमभिः कायतीति लोमका। भरिण्या इति-यद्यनेन ह्रस्वः स्यात् तदा 'भरिण्याः, भरिणेः' इति रूपं स्यात्, इदानीं तु 'भरिण्याः' इत्येकमेवेष्टम् ।। २. ४. ६६ ।।
त्वे ॥२. ४. १०० ॥
25 याबन्तस्य त्वे. प्रत्यये बहुलं ह्रस्वो भवति । रोहिण्या भावः-- रोहिणित्वम्, रोहिणीत्वम् ; अजत्वम्, अजात्वं वा ।। १०० ॥
न्या० स०-वे । अथ "ड्यापो बहुलं त्वे नाम्नि" इत्येकयोग एव कथं न