________________
४०८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ४. सू० ६७-६८.]
न्यायोपढौकनात् “गौश्चान्ते." [ २. ४. ६६. ] इति ह्रस्वाभावादतितुर्यभिक्षा इति भवति, एतदेव साधु ।। २. ४. ६६ ।।
क्लीबे ॥ २. ४. ६७ ॥
क्लीबे--नपुंसके वर्तमानस्य स्वरान्तस्य नाम्नो ह्रस्वो भवति । कीलालपं, ग्रामणि, नतभ्र , अतिहि, अतिरि, अतिधु, अतिनु कुलम्, अधिस्त्रि, 5 उपवधु । काण्डे, कुड्ये, युगवरत्राय युगवरत्रेन्द्र इत्यादावेत्वदीर्घत्वादेनिमित्तान्तरापेक्षत्वेन बहिरङ्गस्यासिद्धत्वाद् ह्रस्वत्वं न भवति । काण्डीभूतं, शुक्लीभूतमित्यादावव्ययानामलिङ्गत्वाच्च ।। ६७ ।।
न्या० स०--क्लोबे। अधिस्त्रीति-आधारार्थप्रधानत्वात् प्रथमा, सामान्यविशेषभावेन सप्तमी वा, विश्रान्तन्यासकारैस्तु यत्र तत्रापि सप्तमीष्टा। काण्डे, कुड्ये, इति-10 नन्वत्र “पदं वाक्यमव्ययं च०" [लिङ्गानु०] इति वचनादलिङ्गत्वे ह्रस्वत्वप्राप्तिरेव नास्ति, तत् कथमुक्तम्-असिद्धत्वादिति, सत्यम्-पदस्यालिङ्गत्वेऽपि काण्डकुड्ययोरवयवयोर्यल्लिङ्ग तद् यदा समुदाये 'काण्डे कुडये' इत्येवंरूपे उपचर्यते तदा प्राप्तिः, यद्वा 'काण्डे कुड्ये' इत्यत्र योऽस्य स्थाने परेण इकारेण सह एकारः स क्वचिद् नपुसकाकारसम्बन्धी क्वचित् पदसम्बन्धी कथ्यते, उभयोः स्थाने निष्पन्नत्वात् । युगेति-युज्यते इति 15 "वर्षादयः क्लीबे [ ५. ३. २६. ] अल् गुणाभावो गत्वं च निपात्यते ।। २. ४. ६७ ।।
वेदूतोऽनव्ययस्वदीचङीयुवापदे ॥२. ४. ६८ ॥
ईकारोकारयोरुत्तरपदे परतो ह्रस्वो वा भवति, न चेत् तावव्ययौ यवृत्--ईज्रूपौ ङीरूपौ इयुवस्थानौ च भवतः । लक्ष्मिपुत्रः, लक्ष्मीपुत्रः; ग्रामणिपुत्रः, ग्रामणीपुत्रः; ब्रह्मबन्धुपुत्रः, ब्रह्मबन्धुपुत्रः; खलपुपुत्रः,20 खलपूपुत्रः। ईदूत इति किम् ? खट्वापादः, गोकुलम् । अव्ययादिवर्जनं किम् ? अव्यय--काण्डीभूतम्, वृषलीभूतम्, ऊरीकृत्य, उररीकृत्य ; स्वृत्-- इन्द्रहूपुत्रः, शकहूपुत्रः; ईच्--कारीषगन्धीपुत्रः, कौमुदगन्धीपतिः; डी-- गार्गीपुत्रः, वात्सीपुत्रः; इयुव्--श्रीकुलम्, भ्र कुलम्, यवक्रीकुलम्, कटप्रूकुलम् । उत्तरपद इति किम् ? अग्नी पश्य, पटू पश्य ।। ६८ ।।
25 न्या० स०-वेदूतोऽन। इन्द्रहूपुत्र इति-इन्द्रं ह्वयति “असरूपोपवादे." [ ५. १. १६.] इत्यणपवादे क्विपि “यजादिवचे:०" [ ४. १. ७६.] इति य्वृति