________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ४०७
प्रतिवामोरुः । गौणस्येत्येव - सुगौः, किंगौः, राजकुमारी, परमब्रह्मबन्धूः; नक्षत्रमाला | अक्विप इत्येव-गामिच्छति क्यन्, गव्यतीति क्विप् - गौः, ततः प्रिया गौः अस्य प्रियगौः; कुमारीमिच्छति क्यन्, क्विप्– कुमारी, ततः प्रियश्चासौ कुमारी च - प्रियकुमारी चैत्रः । गोवति किम् ? प्रतितन्त्रीः, प्रतिलक्ष्मीः, प्रतिश्रीः, प्रतिभ्रः । अन्त इति किम् ? गोकुलम्, कुमारीप्रियः, 5 कन्यापुरम्; अत्र गोशब्दो ङयाद्यन्तं च समासार्थे न्यग्भूतत्वाद् गौणम् । सुगोप्रियः, राजकुमारीप्रिय: ; एवं - पञ्चशालाप्रिय इत्यादौ तु यद्यपि गोशब्दान्तं ङयाद्यन्तं च नामान्यपदार्थे गुणीभूतं तथापि न तदपेक्षयाऽन्त्यत्वम्, यदपेक्षया चान्त्यत्वं न तदपेक्षया गौणत्वमिति न भवति । ननु च ङ्यादीनां प्रत्ययत्वात् " प्रत्ययः प्रकृत्यादेः " [ ७. ४. ११५. ] इति यस्मात् स विधि - 10 स्तदादेर्ग्रहणम्, इतीह न प्राप्नोति - प्रतिराजकुमारिः, प्रतिरत्नमाल इति, सत्यम्--“गौणो ङयादिः " [७. ४. ११६.] इति मुख्ये स्त्रीप्रत्ययेऽयं न्यायो नोपतिष्ठते, राजकुमारी - रत्नमालाशब्दयोश्च स्त्रीप्रत्ययान्तयोर्मुख्यत्वमेव, तेनङयादिप्रत्ययान्तमात्रं विधानानपेक्षमिह गृह्यते । इह कस्मान्न भवति ? - इति; परत्वात् प्रथममेव
कचि 15
बहुकुमारीकः, बहुब्रह्मबन्धूक कृतेऽन्त्यत्वाभावात् । अनंशिसमासेयोबहुव्रीहाविति किम् ? अर्धं पिप्पल्या:अर्धपिप्पली, एवं --तुर्यभिक्षा, बहव्यः श्रेयस्यो यस्य स - बहुश्रेयसी पुरुषः, एवं-प्रियश्रेयसी ।। ६ ।।
[ पा० ४. सू० ε६. ]
न्या० स० – गोश्चान्ते० । अंशिसमासवर्जनात् समासस्यान्त एव ह्रस्वः । नन्वर्द्धपिप्पलीति - 'अनंशिसमासेयो बहुव्रीहौ' इति व्यावृत्तौ किमिति दर्शितं ? यतो 20 ह्रस्वत्वेऽपि कृतेऽपि "परलिङ्गो द्वन्द्वोंऽशी ०" [ लिङ्गानुशासने ] इति वचनात् पिप्पलीलिङ्ग "इतोऽक्त्यर्थात् " [ २.४. ३२. ] इति ङयां रूपं तथैव, सत्यम् - " इतोक्त्यर्थात् ” [ २. ४. ३२. ] इति वैकल्पिको ङीः, ततोऽर्द्धपिप्पलि:, अर्धपिप्पलीति रूपद्वयं स्यात्, इष्यते चार्द्धपिप्पलीत्येव । ननु तर्हि तुर्यभिक्षेति किमर्थं दर्शितम् ? यतोऽत्रापि "परलिङ्गो द्वन्द्वोंशी ० " इति वचनाद् भिक्षेत्युत्तरपदस्य स्त्रीत्वे ह्रस्वत्वे कृतेऽपि पुनरापि सति 25 'तुर्यभिक्षा' इत्येव भवति, सत्यम् - तुर्यभिक्षेति सिध्यत्येव परं तु तुर्यभिक्षामतिक्रान्तो यः
तिर्यभिक्ष इति ह्रस्वत्वं स्यात्, यतस्तुर्यभिक्षेति उत्तरपदलिङ्गत्वे पुनरापि तुर्यभिक्षेत्याबन्तः, “प्रत्ययः प्रकृत्यादेः” [ ७. ४. ११५. ] इति न्यायात्, वर्जने च सति भिक्षैवावन्तः, ततः पूर्वपदार्थप्रधानत्वादशिसमासस्य " गौणो ङघादिः " [ २.४. ६५ ] इति