________________
४०६ ]
बृहद्वृत्ति - लघुन्याससंवलिते
द्विपङ्गुः, त्रिकरभोरुः; कुवल्या विकारः फलं - कुवलम्, एवं - बदरम्, आमलकम् । ङादेरिति किम् ? पञ्चभिः प्रेयोभिः क्रीतः -- पञ्चप्रेयान् । गौणस्येति किम् ? अवन्तेरपत्यं स्त्री - प्रवन्ती, एवं कुन्ती, कुरू: ; अत्र हि तद्धितलुकि कृते जातौ ङ ङौ इत्यगौणत्वम् । अक्विप इति किम् ? कुमारीमिच्छति क्यन्, कुमारीयतीति क्विप्, तस्य लोपे - कुमारी, ततः पञ्च 5 कुमार्यो देवता अस्य - पञ्चकुमारी; एवं पञ्चेन्द्राणी, पञ्चयुवती । तद्धितलुकीति किम् ? औपगवीत्वम् । कथं हरीतक्याः फलं विकारोऽवयवो वा हरीतकी ?, एवं कोशातकीत्यादि ? ; ग्रत्र लुबन्तस्य स्त्रीत्वात् पुनगौरादिलक्षणो ङीः । गोणी- सूच्योरिति किम् ? पञ्चभिर्गोणीभिः क्रीतः - पञ्चगोरिणः, दशगोरिणः, पञ्चसूचिः, दशसूचिः ।। ६५ ।।
[ पा० ४. सू० ६६. ]
10
न्या० स० -- ङयादेगौरण० । लुगिति लुप एव उपलक्षणं तेनाऽगोमती गोमती भूता - गोमतीभूतेत्यत्र च्वेरभावेऽपि लुबभावाद् ङीनिवृत्तेरभावः । पुनगौरादिलक्षणो रिति एवं विदारी मूलम्, आमली फलमित्यादि । तथा विशाखाभिश्चन्द्रयुक्ताभिर्युक्तः कालः “चन्द्रयुक्तात्०” [ ६. २. ६. ] इत्यणो लुपि ङयादिनिवृत्तौ पुनरापि विशाखा काल इति । [ द्वित्रः ] द्वे स्त्रियौ देवते अस्य, अरण, "द्विगोरन० " [ ६.१.२४.]15 लुक् । पञ्चसख इति यदा सखिशब्दाद् ङयां पञ्चभिः सखीभिः क्रीत इति वाक्ये कृते इकरणो लोपेऽनेन ङीनिवृत्तौ तदा "राजन् सखे : ०" [ ७. ३. १०६. ] इति समासान्तः; यदा तु सखशब्दात् “नारी सखी० " [ २.४.७६ ] इति ङीस्तदा ङीनिवृत्तौ सिद्धमेव । कुवल - बदराभ्यां गौरादिङयन्ताभ्यां हेमाद्याञ् "प्राण्यौषधि० " [ ६. २. ३१. ] इत्यण् यथासंख्येन, ग्रामलकात् "दोरप्राणिनः " [ ६. २. ४६ ] इति मयट् " फले” [ ६.२.५८. ]20 लुप् । तद्धितलुकि कृते इत्यत्र पञ्चभिर्धीवरीभिः क्रीता इतीकरिण लुकि "ङयादे: " [ २. ४. ६५ ] इति ङयभावे पुनर्यां प्रिया पञ्च धीवर्यो यस्येत्यपि कृते "ङयादे: ० [ २. ४. ६५ ] इति ङयभावः - प्रियपञ्चधीवा ।। २. ४. ६५ ।।
"
"
गोश्चान्ते ह्रस्वोऽनंशिसमासेयोबहुव्रीहौ ॥ २. ४. ६६ ।।
गौणस्याक्विपो गोशब्दस्य ङयाद्यन्तस्य च नाम्नोऽन्ते वर्तमानस्य 25 ह्रस्वो भवति, न चेदसावंशिसमासान्त ईयस्वन्तबहुव्रीह्यन्तो वा भवति । चित्रा गावोऽस्य - चित्रगुः, शबलगुः पञ्चभिर्गोभिः क्रीतः - पञ्चगुः शतगुः, कौशाम्ब्या निर्गतो - निष्कौशाम्बिः, एवं - निर्वाणसिः, निःश्रेयसिः ; खट्वामतिक्रान्तोऽतिखट्व: प्रिया खट्वा यस्य स प्रियखट्व:, प्रतिब्रह्मबन्धुः,