________________
[पा० ४. सू० ६४-६५.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ ४०५
इक्षवः काष्ठानि कपोताः क्रुञ्चाः सन्त्यस्यामिति विग्रहे “नडादेः कीयः" [ ६. २. ६२. ] "प्रात्" [२. ४. १८. ] इत्याप्, ततो भवार्थेऽण । काष्ठकोया इत्यत्र तु काष्ठकीयशब्दः कच्छादौ द्रष्टव्यः, ततः कच्छादिपाठात् "कोपान्त्याच्चाए" [ ६. ३. ५६. ] अन्यथा “दोरीयः" [ ६. ३. ३२. ] स्यात् । क्रौञ्चका इति-क्रुञ्चाशब्दस्य कीये नडादिपाठाद् ह्रस्वः, क्रुञ्चकीयायां भवाः। नन्वत्र ईयग्रहणं किमर्थम् ? बिल्वकीयादेरित्येव 5 क्रियताम्, एवमपि कृते बैल्वका इत्यादीन्यणि "अवर्णेवर्णस्य" [ ७. ४. ६८. ] इति ईयाकारलोपे ततो "बिल्वकीयादेः” इत्यनेनाधिकारायातस्य यकारमात्रस्य लोपे पुनः "अवर्णेवर्णस्य" [७. ४. ६८.] इति ईकारलोपे सेत्स्यन्ति; न च वाच्यं बिल्वकीयादेरित्यनेन यकारलोपे कर्तव्ये "स्वरस्य०" [ ७. ४. ११०. ] इति परिभाषयाऽकारलोपस्य स्थानित्वम्, “न संधि०" [ ७. ४. १११. ] इति यविधौ स्थानित्वनिषेधेऽपि ईकारलोपे10 स्थानित्वमस्त्येवेति ईयग्रहणम् । ननु तहि “बिल्वकीयादेर्यस्य” इति क्रियताम्, एवं कृते यकाराधिकारे पुनर्यत् ग्रहणं करोति तदेवं ज्ञापयति-अत्र सस्वरस्यैव यस्य लुक्, सस्वरलोपे च स्वरव्यञ्जनसमुदायत्वात् "स्वरस्य०" | ७.४.११०. | इति स्थानित्वाभावे सर्व भविष्यति, सत्यम्-एवं कृते एषाप्याशङ्का स्यात्-अनेन यकारलोपे ईकारस्य लुग न भवतीति, यदीकारलोपोऽपि सम्मतः स्यात् तदा ईयस्येति कुर्यादिति ।। २. ४. ६३ ।। 15
न राजन्य-मनुष्ययोरके ॥ २. ४. ६४ ॥
राजन्य-मनुष्यशब्दयोर्यकारस्याकप्रत्यये परतो लुग् न भवति । राजन्यानां समूहो--राजन्यकम्, एवं--मानुष्यकम् । “तद्धितयस्वरेऽनाति" [२. ४. ६२.] इति यलोपे प्राप्त प्रतिषेधोऽयम् ।। ६४ ।।।
न्या० स०--न राजन्य०। राजन्यकमिति-राज्ञोऽपत्यमिति "जातौ राज्ञः"20 [६. १. ६२.] इति ये "अनोऽटये ये" [७. ४. ५१.] इति निषेधादनो लुगभावे राजन्यानां समूहः “गोत्रोक्ष०” [ ६. २. १२. ] इति अकञ् ॥ २. ४. ६४ ॥ ड्यादेगौणस्याक्विपस्तद्धितलुक्यगोणी-सूच्यो.
॥२. ४. ६५ ॥ ङयादेः प्रत्ययस्य गौणस्याक्विबन्तस्य तद्धितलुकि सति लुग् भवति,25 गोणी-सूचीसंबन्धिनस्तु न भवति । सप्त कुमार्यो देवतास्य-सप्तकुमारः, पञ्चभिर्धीवरीभिः क्रीतः-पञ्चधीवा, पञ्चेन्द्राण्यो देवतास्य-पञ्चेन्द्रः, एवंपञ्चाग्निः; एषु डीनिवृत्तौ तत्संनियोगशिष्टयोरागमा-ऽऽदेशयोरपि निवृत्तिः । द्विस्त्रः, पञ्चभिर्युवतिभिः क्रीत:-पञ्चयुवा, एवं--पञ्चखट्वः, पञ्चसखः,