________________
४०४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ४. सू० ६२-६३.]
धातोरिति । सांकाश्यीभूत इति-असाङ्काश्यः साङ्काश्यो देशो भूतः ।। २. ४. ६१ ।। ।
तद्धितय-स्वरे नाति ॥ २. ४. ६२ ॥
व्यञ्जनात् परस्यापत्ययकारस्य यकारादावाकारादिवजिते स्वरादौ च तद्धिते लुग् भवति । गार्ये साधु:-गार्यः, गर्गाणां समूहो-गार्गकम्, एवंवात्सकम् ; गार्यस्यायं-गार्गीयः, एवं-वात्सीयः । आपत्यस्येत्येव-संकाशेन 5 निर्वृत्तं-सांकाश्यम्, तत्र भवः--सांकाश्यक; एवं--काम्पील्यकः । तद्धितेति किम् ? गाग्र्येण, वात्स्येन । य-स्वर इति किम् ? गार्ग्यरूप्यः । अनातीति किम् ? गाायणः । व्यञ्जनादित्येव-कारिकेयिः, हारिकेयिः ।। ६२ ।।
न्या० स०--तद्धितय०। गार्गकमिति-गर्गस्यापत्यानि यञ्, तस्य च "न प्राजितीये." [६. १. १३५. ] इत्यनेन निषेधात् “यात्रोऽश्यापर्णान्त०" [६.१.१२६.] 10 इति न लुप्, ततो गर्गाणां समूहो गार्गक “गोत्रोक्ष०" [६. २. १२.] अकञ्। गार्गीय इति-गार्ग्यस्यायं शिष्यश्चेत, अन्यथा “गोत्राददण्ड०" [६. ३. १६६.] इत्यका स्यात । काम्पील्येति-कम्पनं कम्पः, कम्पोऽस्यास्तीति-कम्पी, कम्पिन मिलति “मूल विभुजादयः" [ ७. १. १४४. ] कः, समानदीर्घत्वम् । गार्यरूप्य इत्यत्र भूतपूर्वो गार्गस्येति विगृह्य “षष्ठ्या रूप्यप्चरट्" [ ७. २. ८०.] इति रूप्यपि; अथवा गार्यादागतः "नृ-हेतुभ्यः'15 [ ६. ३. १५६. ] इति रूप्यः ।। २. ४. ६२ ॥
बिल्वकीयादेरीयस्य ॥ २. ४. ६३ ॥
नडादिषु बिल्वादयः पठ्यन्ते, तेषां कीयप्रत्ययान्तानामिह निर्देशः, बिल्वकीयादीनां दशानां शब्दानामवयवस्येयस्य तद्धितयस्वरे परे लुग् भवति ; अनाति इति नानुवर्तते; आतोऽसंभवात् । बिल्वाः सन्त्यस्यामिति-बिल्वकीया20 नाम नदी, तस्यां भवा-बैल्वकाः; एवं-वैण काः, वैत्रकाः, वैतसकाः, त्रैकाः, ताक्षकाः, ऐक्षुकाः, काष्ठकाः; कापोतकाः; क्रौञ्चकाः । बिल्वकीयादेरिति किम् ? नाडकीयः, प्लाक्षकीयः । तद्धितयस्वर इत्येव-बिल्वकीयाः, बिल्वकीयरूप्यम् ।। ६३ ॥
न्या० स०--बिल्वकीया० । ननु बिल्वकीयादयो द्विधाकेचिन्नडादेः कीये सति,25 अपरे कुत्सिताद्यर्थकप्प्रत्ययन्तादीये सति, तत् केषामिह ग्रहणमित्याशङ्कय आदिशब्दस्य व्यवस्थावाचित्वादित्याह-नडादिष्वित्यादि । बिल्वो वेणवो वेत्राणि वेतसास्त्रयस्तक्षाण