________________
[पा० ४. सू० ७६-७७.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३६५
ऊरू यस्याः सा--करभोरूः, एवं--नागनासोरूः, कदलीस्तम्भोरूः, सहितोरू:, संहितोरू:, सहोरूः, सफोरूः, वामोरू:, लक्ष्मणोरूः। उपमानाद्यादेरिति किम् ? वृत्तोरुः, पीनोरुः । कथं स्वामिन ऊरू-स्वाम्यूरू, हस्तिन इव स्वाम्यूरू यस्याः सा-हस्तिस्वाम्यूरुः वडवा ? एवं--करभमात्रुः; नात्रोरुशब्द उपमानादिपूर्वोऽपि तु स्वाम्यूरुमात्रूरुशब्दौ ।। ७५ ।।
न्या० स०--उपमान। कुत्सितौ अपलक्षणौ ऊरू यस्याः, शत्रुपर्यायावेतौ । सफशब्दः संक्लिष्टार्थोऽव्युत्पन्नो दन्त्यादिरिति न्यासकृत् । लक्ष्मणादूरोरिति कृते 'सहिता ऊरुः, हे संहित ! ऊरुर्वर्त्तते' इत्यादावपि स्यात् । आदिशब्दः पूर्वावयववचनः, तेन च समासलाभादूरोरुत्तरपदत्वं गम्यते, अत आह-उपमानादिपूर्वपदादिति । नागनासोरूरिति-नगे भवा अरिण-नागाः, नास्यत इति "क्तट:" [५. ३. १०६.] इत्यप्रत्यये--10 नासा। कदलीस्तम्भोरुरिति-कदलशब्दाद् गौरादित्वाद् ड्याम् । कथमिति-यद्यत्रादिग्रहणमकृत्वाऽन्तग्रहणं क्रियेत तदा ऊर्वन्तादिति विज्ञायमानेऽत्राप्यूङ प्रसज्येत, अस्ति ह्यत्रोपमानात् परोऽयमूर्वन्तः-स्वाम्यूरुशब्दः, हस्तिस्वाम्यूरुरिति । वडवेत्यादि-यथा हस्तिनः सम्बन्धित्वेन स्वाम्यूरू पायातस्तथा वडवाया अपि, एतावता उच्चस्त्वं वडवाया निवेदितम् ।। २. ४. ७५ ।।
नारी सरती पणू श्वशू ॥ २. ४. ७६ ॥
एते शब्दाः स्त्रियां ड्यन्ताश्च ऊङन्ताश्च निपात्यन्ते । न-नरयोङऱ्या नारादेशः--नारी। सखिशब्दात् सखशब्दाच्च बहुव्रीहेर्डीः--सखी, सह खेन वर्तते या सापि--सखी; निपातनसामर्थ्याद् धवयोगेऽपि भवति--सख्युः स्त्री-- सखी । पङ्गशब्दादजातावूङ्--पङ्गः । श्वशुरशब्दाच्च जातिलक्षणे धवयोग-20 लक्षणे च ङीप्रत्यये प्राप्ते ऊङ् उकाराकारयोर्लोपश्च-श्वश्रूः ।। ७६ ॥
न्या० स०--नारी सखी० । पॉशब्दादजाताङिति-यद्यप्ययं गुणवचनस्तथापि नात्रैकवर्णव्यवहितस्वरात् पर उकार इति "स्वरादुत:०" [ २. ४. ३५. ] इति, अमनुष्यजातित्वादप्राणिजातित्वाभावाच्च “उतोप्राणिनः०" [२. ४. ७३. ] इति वाप्राप्तेऽनेनोङ । श्वश्रूरित्यत्र द्वावपि तालव्यौ। अयं च यद्वा श्वशुरशब्दः संज्ञाशब्दस्तदा अपि25 श्वशुरा इत्येव भवति, न तु श्वश्रूरिति ।। २. ४. ७६ ।।
15
यूरिस्तः ॥ २. ४. ७७ ॥ युवन्शब्दात् स्त्रियां तिः प्रत्ययो भवति, नकारान्तत्वाद् डीप्रत्यये प्राप्ते