________________
३६६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
तदपवादो योगः । युवतिः । यूनीत्यपि कश्चित्, न तच्छिष्टसंमतम् । कथं युवती ?, यौते रौणादिककिदतिप्रत्ययान्तात् " इतोऽक्त्यर्थात् " [२. ४. ३२.] इति ङीर्भविष्यति । मुख्यादित्येव -- प्रतियूनी, निर्यूनी ॥ ७७ ॥
[ पा० ४. सू० ७८.]
न्या० स०-- - यूनस्तिः । युवतिरित्यत्र ङीरिति जातिग्रहणे सकृद् बाधित० इति न्यायात् पश्चात् " इतोऽक्त्यर्थात् " [ २. ४. ३२. ] इत्यपि न ।। २. ४. ७७ ।।
अनार्षे वृद्धेsणिञो बहुस्वरगुरूपान्त्यस्यान्त्यस्य
व्यः ॥। २.४.७८ ।।
4
5
अनार्षे वृद्धे विहितौ यावणिजौ प्रत्ययौ तदन्तस्य सतो बहुस्वरस्य गुरूपान्त्यस्य नाम्नोऽन्त्यस्य स्त्रियां ष्य इत्यादेशो भवति, गुरुग्रहणादनेकव्यञ्जनव्यवधानेऽपि भवति; गुरुग्रहणं हि दीर्घपरिग्रहणार्थं संयोगपरपरि - 10 ग्रहार्थं च, अन्यथा दीर्घोपान्त्यस्येत्युच्येत । करीषस्येव गन्धोऽस्य करीषगन्धिः, तस्यापत्यं पौत्रादि स्त्री इत्यण, तस्य ष्यादेशः - कारीषगन्ध्या, एवं - कौमुदगन्ध्या । देवदत्तस्यापत्यं पौत्रादि स्त्री इतीञ, तस्य ष्यादेशः -- दैवदत्त्या, एवं - वाराह्या, बालाक्या । अनार्ष इति किम् ? वासिष्ठी, वैश्वामित्री । वृद्ध इति किम् ? वराहस्य प्रथमापत्यं स्त्री - वाराही, अहिच्छत्रे जाता - प्राहिच्छत्री, एवं - 15 कान्यकुब्जी । प्ररिणञ इति किम् ? ऋतभागस्यापत्यमिति बिदाधित्वादञ् - आर्तभागी, एवम् प्राष्टिषेणी । बहुस्वरेति किम् ? दाक्षी, प्लाक्षी । गुरूपान्त्यस्येति किम् ? औपगवी, कापटवी । प्रणिजन्तस्य सतो बहुस्वरादिविशेषणं किम् ? द्वारस्यापत्यं पौत्रादि स्त्री इतीजि - दौवार्या, तथा - उडुलोम्नोऽपत्यमितीबि -- प्रडुलोम्या, सारलोम्या; अत्रेञः पूर्वम बहुस्वरत्वेऽगुरूपान्त्यत्वे च20 सत्यपीत्रि सति बहुस्वरत्वाद् गुरूपान्त्यत्वाच्च यथा स्यात् । स्त्रियामित्येवकारीषगन्धः, वाराहिः पुमान् । मुख्यस्येत्येव - बहवः कारीषगन्धा यस्यां साबहुकारीषगन्धा, निर्वाराहिः । कथं सौधर्मी ?, श्रायस्थूणी ?, भौलिङ्गी ?, आलम्बी ?, आलच्ची ?, कालच्ची प्रौद्ग्राहमानी ? ; -- गौरादिपाठात् । षित्करणं " या पुत्रपत्योः ०" [२. ४. ८३.] इत्यत्र विशेषणार्थम् ।। ७८ ।। 25 अन्त्यस्य ष्य इति- अणन्तमित्रन्तं च बहुस्वरं नाम
न्या० स०-- अनार्षे० ।