________________
[ पा० ४. सू०७४-७५.]
वचनत्वम्, तथा चोङि सति ह्रस्वत्वं सिद्धम् । अन्ये तु " सूर्यं पश्यरूपा त्वं किमभीरुररार्यसे” इति प्रयोगदर्शनाज्जातिवचनत्वमनिच्छन्त ऊङ न
मन्यन्ते ।। ७३ ।
३९४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
"
न्या० स० -- उतोऽप्रा० । ऊङिति दीर्घनिर्देश उत्तरार्थः तेन "नारी सखी ० [ २. ४. ७६. ] इत्यत्र श्वश्रूरिति दीर्घान्तो निपातः सिद्धः । कुरूरिति तस्यापत्यं 5 " दुनादि ० " [ ६. १. ११८. ] इति विहितस्य त्र्यस्य "कुरोर्वा" [ ६. १. १२२. ] इति लुपि " गोत्रं च चरणैः सह" इति जातित्वादुङ । इक्ष्वाकूरिति - "राष्ट्रक्षत्रियात् ०" [ ६. १. ११४. ] इति अञ्, तस्य "द्रेरण० " [६. १. १२३ . ] लुप् । ब्रह्मबन्धूरितिअत्र च "लिङ्गानां च न सर्वभाक्" इति जातित्वम् । तत्र बहुलाधिकारादितिसमासान्तप्रकरणे इत्यर्थः, यद्वा ऊश्वासावुङ चेति द्विविधानादन्यः प्रत्ययो न भवतीति 10 कैयटमतम् ।। २. ४. ७३ ।।
बावन्त-कद्रु-कमण्डलोर्ना म्नि ॥ २. ४. ७४ ।।
बाहुशब्दान्तान्नाम्नः कद्र - कमण्डलुभ्यां च नाम्नि विषये स्त्रियामूङ् प्रत्ययो भवति । मद्रबाहूः, भद्रबाहूः, कद्र ू, कमण्डलूः; संज्ञा एताः । नाम्नीति किम् ? वृत्तौ बाहू अस्या वृत्तबाहुः ।। ७४ ।।
न्या० स०-- बाह्वन्त० । अन्तग्रहणं तदन्तविध्यर्थम्, प्रक्रियमाणे हि तस्मिन् यः स्त्रीसंज्ञायां बाहुशब्दस्तस्मात् केवलादूङ् विधीयते, यथैव हि देवदत्तशब्दः स्त्री- पु सयोः संज्ञा, एवं बाहुशब्दोऽपि प्रप्राणिनश्चेत्यनेन भुजाभिघायकाद् बाहुशब्दादुङ सिद्धो न तु संज्ञाशब्दात्, अन्तग्रहणात् तु तदन्ताद् बाहुशब्दात् क्रियते, न तु केवलात् । मद्रबाहूरित्यत्र मद्रौ भद्रौ बाहू यस्या इत्यवयवार्थकल्पना यथाकथञ्चित् समुदायस्य संपादनार्थं 20 क्रियते । कमण्डलूरित्यत्र कमण्डलुशब्दस्य चाप्राणिजातित्वादप्राणिनश्चेत्यङि प्राप्ते नियमः क्रियते, रज्ज्वादिपाउन च ऊङ प्रतिषेधे प्राप्ते विधिः क्रियत इति । नन्वस्याप्राणिजातिवचनत्वात् “चतुष्याद्भय एयञ्” [ ६. १. ८३. ] इत्यत्र कामण्डलेय इति कथमुदाहरति, चतुष्पाज्जातिवाचित्वात् प्राणिजातित्वमव्यभिचरितमेव, सत्यम् - प्रप्राणिजातिवचनोऽयं शब्दान्तरमेव, श्रानन्त्यात् शब्दानामिति ।। २. ४. ७४ ।।
उपमान-सहित-संहित-सह- सफ-वाम-लक्ष्मणाद्यूरो
।। २. ४. ७५ ॥
,
उपमानादिपूर्वपदाद्दूरुशब्दात् स्त्रियामूङ् प्रत्ययो भवति ।
15
करभ इव
25