________________
[पा० ४. सू० ७२-७३.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३६३
नुतिः ॥ २. ४. ७२॥
नुर्मनुष्यस्य या जातिस्तद्वाचिन इकारान्तानाम्नः स्त्रियां ङीर्भवति । अवन्तेः कुन्तेश्चापत्यमिति ज्यः, तस्य लोपे-अवन्ती, कुन्ती, दाक्षी, प्लाक्षी, तैकायनी, ग्लुचुकायनी। इत इत्येव-विशोऽपत्यमित्यत्र तस्य च लोपे-विट, एवं-दरद्; अवन्तीयतेः क्विप्, तस्य लोपे-अवन्तीः स्त्री। नुरिति किम् ? 5 तित्तिरिः । जातेरिति ? निष्कौशाम्बिः कन्या ।। ७२ ।।
न्या० स०--नुर्जातः। अवन्ती, कुन्ती, “दुनादि०" [ ६. १. ११८. ] इति ञ्यः "कुन्त्यवन्ते:०" [ ६. १. १२१. ] इति लुप् । तैकायनी "तिकादेरायनि" [६. १. १०७. ] । ग्लुचुकायनी "अदेरायनिः" [६. १. ११३.] । तस्य च लोपे इति"राष्ट्रक्षत्रियात्" [ ६. १. ११४. ] इति विहितस्य "द्रेरणः०" [६. १. १२३.]10 इत्यनेनेत्यर्थः । एवं-दरदिति “पुरमगध०" [ ६. १. ११६. ] इति विहितस्याणः, एवं चास्य "गोत्रं च चरणैः सह" इति जातित्वम् ; यद्वा मनुष्यपर्यायत्वात् स्वयमेव जातित्वम् । अवन्तीः स्त्रीति-अवन्तेरपत्यं बहवो माणवका: "दुनादि०" [६. १. ११८.] ज्यः, "बहुषु०" [ ६. १. १२४. ] इति लुप्, अवन्तीनिच्छति या स्त्री क्यन्, अवन्तेरपत्यं या स्त्रीति तु कृते "दुनादि०" [६. १. ११८.] ञ्यस्य “कुन्त्यवन्ते:०" [ ६. १. १२१. ]15 इत्यनेन लुपि क्यनः प्रागेव ङीः स्यात् ।। २. ४. ७२ ।।
उतोऽप्राणिनश्चायुरज्ज्वादिभ्य ऊङ् ॥ २. ४. ७३ ॥
उकारान्तान्न जातिवाचिनोऽप्राणिजातिवाचिनश्च नाम्नः स्त्रियामूङ् प्रत्ययो भवति, युशब्दान्तं रज्ज्वादींश्च वर्जयित्वा । कुरूः, इक्ष्वाकूः, ब्रह्मबन्धूः, धीवबन्धुः; अप्राणिनश्च-अलाबूः, कर्कन्धूः; ब्रह्मा बन्धुरस्या इत्यत्रोङः पूर्वं20 "शेषाद् वा" [७. ३. १७५.] इति कच् प्रत्ययः परोऽपि न भवति, तत्र बहुलाधिकारात् । उत इति किम् ? विट, वधूः, ऊङि हि सति वधूमतिक्रान्तोऽतिवधूरित्यत्र हृस्वः स्यात्, यथा--अतिब्रह्मबन्धुरित्यत्र । अप्राणिनश्चेति किम् ? पाखुः, कृकवाकुः। जातेरित्येव-पटुः, चिकीर्षुः-स्त्री; काकु:स्वरभेदः, शङ्कः--संख्याविशेषः । अयुरज्ज्वादिभ्य इति किम् ? अध्वर्युः स्त्री,25 चरणत्वाज्जातिः; रज्जुः, हनुः । बहुवचनमाकृतिगणार्थम् । कथं तर्हि भीरु ! गतं निवर्तत इति ? भीरुशब्दस्य हि क्रियावाचित्वाज्जातिलक्षणस्योङोऽभावे संबोधने प्रोत्वं प्राप्नोति, नैवम्-ताच्छीलिकानां संज्ञाप्रकारत्वान्मनुष्यजाति