________________
३६२ ] .
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ४. सू० ६९-७१.]
"पृषि-रजि०" [उणा० २०८.] इति कित्यते आकारलोपे च-कतः ।। २. ४. ६८ ॥ ।
पावटाद् वा ॥२. ४. ६६ ।।
षकारान्तानाम्नोऽवटशब्दाच्च यजन्तात् स्त्रियां वा डीभवति, तत्संनियोगे डायन् चान्तः। पौतिमाष्यायणी, पौतिमाष्या; शार्कराक्ष्यायणी, शार्कराक्ष्या; गौकक्ष्यायणी, गौकक्ष्या; पावट्यायनी, आवट्या ।। ६६ ।। 5
न्या० स०--पावटाद् वा । अत्र ङी-डायनोरुभयोरनुवर्तनात् प्राधान्यात् ङीप्रत्ययेनैव वाशब्दस्य सम्बन्धो, नाऽन्वाचीयमानेन डायनेत्याह-स्त्रियां वा डोर्भवतीति ।। २. ४. ६६ ॥
कौरव्य-माण्डूका-सुरे ॥ २. ४. ७० ॥
एभ्यः स्त्रियां ङीर्भवति, तत्संनियोगे डायन् चान्तः । कौरव्यायणी,10 माण्डूकायनी, आसुरायणी ।। ७० ।।
न्या० स०--कौरव्य० । कौरव्यायणीति-यदा कुरोर्ब्राह्मणस्यापत्यं तदा "कुर्वादेर्व्यः" [६. १. १००.], यदा तु कुरो राज्ञोऽपत्यं तदा "दुनादि०" [ ६. १. ११८. ] इत्यनेन, अयं चानयोविशेषः-दुनादीत्यस्य द्रिसंज्ञत्वाद् बहुषु लुप् भवति। मण्डूकस्यापत्यं "पीला-साल्वा०" [७. १. ८७.] इत्यण् । असुरस्य ऋषेरपत्यं स्त्री "बाह्वादि०"15 [६. १. ३२.] इञ् ॥ २. ४. ७० ।।
इत्र इतः ॥ २. ४.७१॥
इञ्प्रत्ययान्तानाम्न इकारान्तात् स्त्रियां ङीर्भवति । सुतंगमेन निर्वृत्तेति इञि सौतंगमी, एवं मौनिचित्ती इत इति किम् ? इञआदेशात् ष्याद् मा भूत्-वराहस्यापत्यं-वाराह्या, एवं-बालाक्या, कारीषगन्ध्या, कौमुद-20 गन्ध्या ।। ७१ ॥
न्या० स०--इत्र इतः। इकारान्तादिति-तद्धितप्रकरणसाहचर्यात् "प्रश्नाख्याने वे" [५. ३. ११६.] इति इञ् न गृह्यते, पूर्वसूत्रे आसुरिग्रहणात् । डायन् नानुवर्तते, अन्यथा इअन्तद्वारेण सिद्धम् । अपत्येान्तस्य मनुष्यजातिवचनत्वादुत्तरेणैव सिद्धेऽजात्यर्थोऽमारम्भः ।। २.४.७१ ॥
25