________________
1
[पा० ४. सू० ६६-६८.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३९१
यवा, यवना, अरण्या; हिमा नाम काचित् ।। ६५ ।।
न्या० स०--यव-यवना० । यौतेरचि यवः, नन्द्यादित्वादने च यवनः । धवाद् योगादिति च निवृत्तमिति दोषाद्यर्थविशेषोपादानादिति शेषः । दुष्टो यव इति-अत्रावयवार्थ एवंविधोऽसन्नदेव व्युत्पत्तये परिकल्प्यते, यवजातहि जात्यन्तरं यवानीत्यर्थः द्रव्यान्तरमिति - रालक इत्यर्थः । उरु-महत्त्वयोरेकार्थत्वेऽपि पृथुगुपादानं यथासंख्यार्थम् । 5 प्रण न भवतीति-तद्विषये ङोविधानादित्यर्थ: ।। २. ४. ६५ ।।
आर्य-क्षत्रियाद् वा ।। २. ४. ६६ ।।
आभ्यां स्त्रियां ङीर्वा भवति, तत्संनियोगे प्रान् चान्तः । आर्याणी, आर्या, क्षत्रियाणी, क्षत्रिया; अधवयोगेऽयं विधिः, धवयोगे तु विशेषविधानात् पूर्वेण नित्यं ङीरेव -- प्रार्यस्य भार्या - प्रार्थी एवं क्षत्रि धवयोग एवायं 10 विधिरिति कश्चित्, तन्मते - आर्यस्य भार्या - आर्याणी, आर्या एवं क्षत्रियाणी, क्षत्रिया; धवयोगादन्यत्र प्रार्या क्षत्रियेत्येव भवति ।। ६६ ।।
यत्रो डायन् च वा ।। २. ४. ६७ ।।
यञ्प्रत्ययान्तात् स्त्रियां ङीर्भवति, तत्संनियोगे डायन् चान्तो वा भवति । गार्गी, गार्ग्यायणी; वात्सी, वात्स्यायनी ।। ६७ ।।
न्या० स० -- यत्रो डा० । डायन् चेत्यत्र डित्कररणमासुरायरणीत्यत्र प्रयोजनार्थम् । डायन् चान्तो वा भवतीति - साक्षान्निदिष्टस्य डायन एव वाशब्देन सम्बन्धो, नानुमितेन ङीप्रत्ययेन प्रत्यासत्तेः, "षावटाद् वा " [ २. ४. ६६. ] इति सूत्रकरणाद् वा ।।२.४.६७।।
15
लोहितादिशकलान्तात् ।। २. ४. ६८ ।।
लोहितादिभ्यः शकलान्तेभ्यो यवन्तेभ्यः स्त्रियां ङीर्भवति, तत्संनियोगे 20 डायन् चान्तः । लौहित्यायनी, सांशित्यायनी, कात्यायनी, शाकल्यायनी ।। ६८ ।।
न्या० स० -- लोहिता० । अत्र यदि यत्र इति नाधिक्रियते तदा 'लोहिता' इत्यत्र “श्येतैत०” [ २. ४. ३६. ] इति ङीविकल्पपक्षे, सकलस्य भार्या - शकलीत्यत्र चानेन ङी डायन् च स्यात्, लोहित्यायनीत्यादौ च यत्रन्तान्न स्यादत श्राह - यजन्तेभ्य इति । कायते : 25