________________
३८८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ४. सू० ५६.]
डीभवति । दर्भमूली, शीर्षमूली । अनत्र इति किम् ? अमूला ।। ५८ ।।
न्या० स०-अनमो०। दर्भमूलीत्यत्र दर्भस्येव शीर्षे च मूलं यस्याः। अमूलेत्यत्र न विद्यन्ते मूलानि यस्याः ।। २. ४. ५८ ।।
धवाद् योगादपालकान्तात् ॥ २. ४. ५६ ॥
धवो-भर्ता, तद्वाचिनोऽकारान्ताद् योगात्-संबन्धात् स्त्रियां वर्तमानात् 5 पालकान्तशब्दजितान्नाम्नो ङीर्भवति । प्रष्ठस्य भार्या-प्रष्ठी, एवं प्रचरी, गणकी, महामात्री, कुमार्यां भवो भर्ता-कौमारः, तस्य भार्या-कौमारी प्रष्ठादयो हि शब्दा धववाचिनोऽपि योगात्-सोऽयमित्यभेदोपचारेण भार्यायां वर्तन्ते, यदा तु "तस्येदम्" [६. ३. १६०.] इति व्यतिरेकविवक्षा तदा तद्धितो भवतिप्राष्ठी, प्राचरी। धवादिति किम् ? परिसृष्टा, प्रजाता, प्रसूता; सर्वत्र10 विनि ठितगर्भेत्यर्थः, अस्त्यत्र योगस्तेन विना प्रसवाभावात्, न तु धववाचि नाम। योगादिति किम् ? देवदत्तो धवः, देवदत्ता भार्या स्वत एव, न तद्योगात् । अपालकान्तादिति किम् ? गोपालकस्य भार्या-गोपालिका, एवंपशुपालिका, अविपालिका। आदित्येव-सहिष्णोर्भार्या-सहिष्ण । कथं ज्येष्ठस्य भार्या-ज्येष्ठा ?, एवं कनिष्ठा ?, मध्यमा ? अजादि-15 पाठात् ।। ५६ ।।
न्या० स०--धवाद् योगा। सम्बन्धादिति-सम्बन्धश्च संबन्धिनमपेक्षते, स च प्रत्यासन्नत्वाद् धवस्यैव विज्ञायते, तेन धवेन स्त्रिया सम्बन्धादित्यर्थः । कौमारीतिकुमारी एव प्रतीयते। योगात् सोऽयमिति-अत्र सोऽयमित्यभिसम्बन्धेन वृत्तिर्वेदितव्या, नवयमेवाभिसम्बन्धस्तस्येदमिति, किन्त सोऽयमित्यपि, अभेदाच्च भेदस्य निवतत्वात20 तद्धितानुपपत्तिः । व्यतिरेकविवक्षेति-प्रष्ठस्येयमिति भेदविवक्षेत्यर्थः । अस्त्यत्र योग इति-परिसर्ग-प्रसवौ सम्बन्धनिमित्तौ, न च तौ पुमांसमाचक्षात इत्याह-अस्त्यत्रेति । अन्ये त्वाहुः-परिसर्गो दोहद उच्यते, तेन परिसृष्टा सपरिसर्गा, जातदोहदेत्यर्थः । प्रजनःप्रथमं गर्भग्रहणं, प्रसवस्तु गर्भविनिलुण्ठनम्, एतैश्च योषित एव सम्बन्धो न पुसः, पुरुषसंयोगनिमित्ता एते, न तद्वाचिन इत्यर्थः । गोपालकस्येति-पालयतीति पालकः,25 गवां पालक इति “अकेन क्रीडाजीवे" [३. १. ८१.] इति कर्मषष्ठीसमासः ॥ २.४.५६ ।।