________________
[पा० ४. सू० ५६-५८.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ ३८७
संज्ञा एता प्रोषधीजातीनाम् । जातेरित्येव-बहुपाका यवागूः । आसां जातीनां नित्यस्त्रीरूपत्वाद् वचनम्, एवमुत्तरसूत्रत्रयेऽपि ।। ५५ ।।
न्या० स०-पाककर्ण। आखुकर्णोति-पाखोः कर्ण इव कर्णः पत्रं यस्याः, शङ कुरिव कर्णोऽस्याः, मुद्गस्येव पर्णान्यस्याः, “सल गतौ" सल्यत इति घत्रि-साल:, दन्त्यादिः, सालस्येव पर्णान्यस्याः ।। २. ४. ५५ ।।
असत-काण्ड-प्रान्त-शतकाचः पुष्यात् ॥ २. ४. ५६ ॥
सदादिरहितशब्दपूर्वो यः पुष्पशब्दस्तदन्ताज्जातिवाचिनो नाम्नः स्त्रियां ङीर्भवति । शङ्खपुष्पी, सुवर्णपुष्पी, हिरण्यपुष्पी। सदादिप्रतिषेधः किम् ? सत्पुष्पा, काण्डपुष्पा, प्रान्तपुष्पा, शतपुष्पा, एकपुष्पा, प्राक्पुष्पा, प्रत्यक्पुष्पा ।। ५६ ।।
न्या० स०--असत्काण्ड । शङ्खपुष्पीति-शङ्खादिवर्णः शङ्खादिशब्दः, तेन शङ्खादि पुष्पं यस्याः। सत्पुष्पेत्यादि-अत्र सन्ति काण्डे प्रान्ते शतमेकं च पुष्पं पुष्पाणि वा यस्या इति विग्रहः । प्राकपुष्पेति-अञ्चतिलृप्तधाप्रत्ययान्तः, प्राक् प्रत्यक् पुष्पं यस्याः । २. ४. ५६ ।। असं-भस्त्रा-जिनैक-शण-पिण्डात् फलात्
।। २.४.५७॥
10
15.
समादिवजितशब्दपूर्वो यः फलशब्दस्तदन्ताज्जातिवाचिनो नाम्नः स्त्रियां ङीर्भवति । दासीफली, पूगफली; दाडिमफली। समादिप्रतिषेधः किम् ? संफला, भस्त्राफला, अजिनफला, एकफला; एकान्ने च्छन्त्यन्ये, शणफला, पिण्डफला; औषधिजातिविशेषाणां संज्ञा एताः ।। ५७ ।।।
न्या० स०-असंभस्त्रा०। दासीफलीति-दासीव पूगो दाडिमं च फलं यस्या इति । संफलेति-संगतं भस्त्रेव अजिनमिव एकं च फलमस्याः । शरणफलेति-शरणस्येव फलान्यस्याः । पिण्डफलेति-पिण्डाकाराणि फलान्यस्याः पिण्डफला कटुतुम्बी, यनिघण्टु:-"कटुकाऽलाबुती तुम्बी लञ्चा पिण्डफला तथा" ।। २. ४. ५७ ।।
अनञो मूलात् ॥ २. ४. ५८ ॥ नवजितशब्दपूर्वो यो मूलशब्दस्तदन्ताज्जातिवाचिनो नाम्नः स्त्रियां
25