________________
३८६ ]
बृहद्वृत्तिलघुन्याससंवलिते
[पा० ४. सू० ५५.]
स्त्रीत्वाभावेऽपि द्रोणी-कुटीजातेनित्यस्त्रीत्वात् प्रतिषेधः प्राप्नोति ;-नैवम्गौरादिपाठाद् भविष्यति । शूद्रवर्जनं किम् ? शूद्रा। कथं महाशूद्रीआभीरजातिः ?, नात्र शूद्रशब्दो जातिवाची, किं तर्हि ?-महाशूद्रशब्दः, यत्र तु शूद्र एव जातिवाची तत्र भवत्येव ङीनिषेधः-महती चासौ शूद्रा च महाशूद्रति । जातिलक्षणस्य चायं प्रतिषेधः, तेन-धवयोगे भवत्येव शूद्रस्य । भार्या-शूद्री। आदित्येव-पाखुः, तित्तिरिः; कोयष्टिः । मुख्यादित्येवबहुशूकरा भूमिः, बहुब्राह्मणा शाला। कथं सुपर्णी ? सुपर्णशब्दस्यापि जातिवाचित्वात्, तस्य च मुख्यत्वात् ।। ५४ ।।
न्या० स०--जातेरया०। जाति: सामान्यमभिन्नबुद्धिध्वनिप्रसवनिबन्धनमर्थः, तत्र च कार्यासम्भवात् तद्वाचिनो ग्रहणमित्याह-जातिवाचिन इति । सकृदुपदेशव्यङ्गयत्वे10 इति-उभयोरपि संबध्यते। आकृतिग्रहणेत्यत्र गृह्यतेऽनेनेति आकृति:-अवयवरचना ग्रहणं यस्याः। लिङ्गानां चेति-लिङ्गानां सर्व-सर्वत्वं भजति लिङ्गसमुदायं वा, सर्व भजते वा। सकृदाख्यातेत्यत्र सकृदाख्याता सती नियमेन ग्राह्या। पात्रीति-अव्युत्पन्नोऽयं, "हु-या-मा०" [ उरणा० ४५१. ] इति त्रप्रत्ययान्तो वा, डन्तस्य तु टिद्वारा ङी: सिद्ध एव । ब्राह्मणीति-अयमप्यव्युत्पन्नः, “चिक्कण०" [ उणा० १६०. ] इति 15 निपातो वा, ब्रह्म अणति कर्मणोऽणि पृषोदरादिनिपाते, अपत्याणि वाऽणन्तत्वाद् डी: सिद्ध एव । बह वचीति-"नाप्रियादौ" [ ३. २. ५३. ] इत्यनेन न पुवन्निषेधः, तत्र पुरण्यबन्तस्य ग्रहणात। यद्यपि कठादयोऽपि ब्राह्मणविशेषास्तथापि कठादीनामत्रिलिङ्गत्वं न, यथा-कठेन प्रोक्त वेत्त्यधीते वा-कळं ब्राह्मणकुलमिति तुर्य जातिलक्षणं विधेयमेव । कुटीति-मतान्तरेण कुटीशब्दस्य नित्य-स्रीत्वं, स्वमते "गृहे कुट:"20 [ लिङ्गानु० पुस्त्री० श्लो० २ ] इति लक्षणेन पुंस्त्रीत्वमिति मतान्तरेणेदं दर्शितम् । कथं महाशूद्रीति-केवलात् शूद्रात् ङ्यां महती चासौ शूद्री चेति महाशूद्रीति परस्याभिप्रायः। महांश्चासौ शूद्रश्च ति व्युत्पत्तिमात्रमिदम्, यथा-पलिक्नीत्यत्र वृत्तिनिमित्तं जातिः, जातिद्वारेण ङीः। आभीरजातिरिति-वैश्यभेद एव, आभीरो गवाधुपजोवी। कथं सुपर्णीति-पर्णशब्दस्यैव जातित्वं, तस्य च कृते समासे अमुख्यत्वमित्यभि-25 प्रायः ।। २.४.५४ ।।
पाक-कर्ण-पर्ण-वालान्तात् ॥ २. ४. ५५ ॥
पाकाद्यन्ताज्जातिवाचिनो नाम्नः स्त्रियां डीभवति । अोदनस्येव पाकोऽस्या:-पोदनपाकी, क्षणं क्षणेन वा पाकोऽस्या:-क्षणपाकी, पाखुकर्णी, शकुकर्णी, मुद्गपर्णी, सालपर्णी, गौरिव वाला अस्याः-गोवाली, अश्ववाली; 30